SearchBrowseAboutContactDonate
Page Preview
Page 147
Loading...
Download File
Download File
Page Text
________________ [पाद ३. सू. ७५-७८] श्रीसिद्धहेमचन्द्रशब्दानुशासने षष्ठोध्यायः [ १२१ न्या० स० अमो०-यत्र प्रकृतिविशेषो नोपादीयते तत्र 'वाद्यात् । ६-१-११ इति प्रवर्तते इत्यत्र प्रकृतिविशेषोपादनादम इत्यस्य प्रथमान्तनिर्देऽपि न प्रकृतिभावः । अन्तम इति अन्तशब्दात् भवादन्यत्रायं विधिः, भवे तु दिगादिय एव, तथा अवोधः शब्दयोर्दिग्देशवृत्त्योरिह ग्रहणं, कालवृत्त्योस्तु परत्वात् 'सायंचिरम् ' ६-३-८८ इति तनडेव । अकारादीति अन्यथा आम इति कृते 'नाम सिदय्यव्यञ्जने' १-१-२१ इत्यनेन पदत्वात् 'प्रायोऽव्ययस्य' ७-४-६५ इत्यन्त्यस्वादिलोपो न स्यात् , 'नोऽपदस्य' ७-४-६१ इत्यतोऽपद पश्चादाद्यन्ताग्रादिमः ॥ ६. ३. ७५ ॥ पश्चात् आदि अन्त अग्र इत्येतेभ्यः शेषेऽर्थे इमः प्रत्ययो भवति । पश्चिमः । अत्राव्ययत्वादन्त्यस्वरादिलोपः। आदिमः, अन्तिमः अग्रिमः । आधन्ताभ्यां भवादन्यत्रायं विधिः, भवे तुं परत्वादिगादिय एव ।०५। मध्यान्मः ॥६. ३. ७६ ॥ मध्यशब्दाच्छेषेऽर्थे मः प्रत्ययो भवति । मध्यमः, भवे दिनणादिर्वक्ष्यते । ततोऽन्यत्रायं विधिः ॥७६। मध्य उत्कर्षापकर्षयोरः ।। ६. ३. ७७ ।। - उत्कर्षापकर्षयोर्मध्ये वर्तमानान्मध्यशब्दाच्छेषेऽर्थे अ इत्ययं प्रत्ययो भवति, मापवादः । नात्युत्कृष्टो नात्यपकृष्टो मध्यपरिमाणो मध्यो वैयाकरणः, मध्या गुणाः, मध्या स्त्री, नातिदीर्घ नातिह्रस्वं मध्यप्रमाणं मध्यं काष्ठम्, नातिस्थूलो नातिकृशो मध्यः कायः । यद्यपि मध्यशब्दो मध्यपरिणामवाचिन्यपि वर्तते तथाप्यवस्थावस्थावतोः स्याद्वादाद्भेदविवक्षायामवस्थावाचिप्रकृतेरवस्थावति प्रत्ययार्थे पूर्वेण मो माभूदिति वचनम् ।७७। न्या० स० मध्य०-यद्यपीति नन्वाधाराधेययोरभेदविवक्षाया मध्यवर्तिकाष्टायपि मध्यशब्देनोच्यते, तत् किमनेनेत्याशङ्का । अध्यात्मादिभ्य इकण् ॥ ६. ३. ७८॥ अध्यात्म इत्यादिभ्यः शेषेऽर्थे इकण् प्रत्ययो भवति । अध्यात्म भवमाध्यात्मिकम्, एवमाधिदैविकम्, आधिभौतिकम्, अनुशतिकादित्वादनयोरुभयपदवद्धिः। और्वदमिकः, और्ध्वदेहिकः, औवंदमिकः, और्वदेहिकः, अत एव पाठादूर्ध्वशब्दस्य दमदेहयोर्वा मोऽन्तः । केचिदूर्ध्वदमोर्ध्वदेहावनुशतिकादिषु पठन्त उभयपदवृद्धिमिच्छति । और्वदामिकः, और्वदैहिकः, ऊर्ध्वमौहर्तिकः, अत्र 'सप्तमी चोर्ध्वमौहूतिके' (५-३-१२) इति ज्ञापकादुत्तरपदस्यैव
SR No.034257
Book TitleSiddh Hemhandranushasanam Part 03
Original Sutra AuthorHemchandracharya
AuthorUdaysuri, Vajrasenvijay, Ratnasenvijay
PublisherBherulal Kanaiyalal Religious Trust
Publication Year1986
Total Pages570
LanguageSanskrit, Gujarati
ClassificationBook_Devnagari & Book_Gujarati
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy