________________
१२० ]
बृहवृत्ति-लघुन्याससंवलिते [पाद. ३. सू. ६८-७४ ] युष्मदीयः, अस्मदीयः, एकत्वे तु तवकममकम् । तवायं तावकः, ममायं मामकः, तावकीनः, मामकीनः, पक्षे त्वदीयः, मदीयः ।६७ दीपादनुसमुद्र ण्यः ॥ ६. ३. ६८ ॥
समुद्रसमीपे यो द्वीपस्तद्वाचिनः शेषेऽर्थे ण्यः प्रत्ययो भवति । कच्छाघकरणोरपवादः, द्वेप्यो मनुष्यः, द्वेप्यमस्य हसितम्, द्वेप्यम् । अनुसमुद्रमिति किम् ? अनुनदि यो द्वीपस्तस्मात् द्वैपको व्यासः, द्वेपकमस्य हसितम्, द्वैपम् ।६८।
अर्धाद्यः ॥ ६. ३. ६९ ॥ ___अर्धशब्दाच्छेषेऽर्थे य: प्रत्ययो भवति । अय॑म् ।६९। सपूर्वादिकण ॥ ६. ३. ७० ।।
सपूर्वपदादर्धशब्दात् शेषेऽर्थे इकण प्रत्ययो भवति । पौष्कराधिकः, बजयाधिकः, बालेयाधिकः, गौतमाधिकः, क्षेत्राधिकः यौवनाधिकः ।७०। दिकपूर्वपदात्ती ॥ ६. ३.७१ ॥
दिक्पूर्वपदादर्धशब्दाच्छेषेऽर्थे तो य इकण् इत्येतो प्रत्ययो भवतः । पूर्वार्ध्यम्, पौर्वाधिकम् दक्षिणायम, दाक्षिणाधिकम्, पश्चार्यम्, पाश्चाधिकम् ।७१। ग्रामराष्ट्रांशादणिकणी ॥ ६. ३. ७२ ॥
ग्रामराष्ट्रैकदेशवाचिनोऽर्धशब्दाद्दिकपूर्वात् शेषेऽर्थेऽण् इकण इत्येतो प्रत्ययो भवतः, यापवादो। ग्रामस्य राष्ट्रस्य. वा पूर्वार्धे भवः पौर्षिः, पौर्वाधिक:, दाक्षिणार्धः, दाक्षिणाधिकः ।७२। परावराधमोत्तमादेयः ॥६. ३.७३ ॥
पर अवर अधम उत्तम इत्येतत्पूर्वादर्धशब्दाच्छेषेऽर्थे यः प्रत्ययो भवति, इकणोऽपवादः । पराय॑म्, अवराय॑म्, अधमाध्यम्, उत्तमार्यम्, परावरयोः दिकशब्दत्वेऽपि परत्वादयमेव यः ।७३।
न्या० स० परावरा-दिक्शब्दत्वेऽपीति न केवलं परावरयोर्यथाक्रम शत्रवधर्मार्थयोरनेन प्रत्यय इत्यपेरर्थः। - अमोऽन्तावोधसः ॥ ६. ३. ७४ ॥
____ अन्त, अवस्, अधस् इत्येतेभ्यः शेषेऽर्थेऽमः प्रत्ययो भवति । अन्तमः, अवमः, अधमः, अकारादित्वमवोऽधसोऽन्त्यस्वरादिलोपार्थम् ।७४।