SearchBrowseAboutContactDonate
Page Preview
Page 145
Loading...
Download File
Download File
Page Text
________________ [पाद. ३. सू. ६४-६७ ] श्रीसिद्धहेमचन्द्रशब्दानुशासने षष्ठोध्यायः [ ११९ पृथिवीमध्यान्मध्यमश्वास्य ॥ ६. ३. ६४॥ पृथिवीमध्यशब्दाद्देशवाचिनः शेषेऽर्थे इयः प्रत्ययो भवति मध्यमादेशश्वास्य पृथिवीमध्यशब्दस्य भवति । पृथिवीमध्ये जातो भवो वा मध्यमीयः।६४। निवासाच्चरणेऽण् ॥ ६. ३. ६५ ॥ पृथिवीमध्यानिवासभूताद्देशवाचिनश्चरणे निवस्तरि शेषेऽर्थेऽण् प्रत्ययो भवति मध्यमादेशश्वास्य पृथिवीमध्यशब्दस्य । पृथिवीमध्यं निवास एषां चरणानां माध्यमाश्चरणाः, त्रयः प्राच्याः त्रयः उदीच्याः त्रयो माध्यमाः । निवासादिति किम् ? पृथिवीमध्यादागतो मध्यमीयः कठः। चरण इति किम् ? पृथिवीमध्यं निवासोऽस्य मध्यमीयः शूद्रः ।६५। 'न्या० स० निवा-नन्वण्ग्रहणं किमर्थ यतो यो हि अन्येन बाधितो न प्राप्नोति तदर्थमिदं स चाणेव ? सत्यं, निवासाच्चरण इति कृते पूर्वसूत्रेणैव सिद्धे नियमार्थ स्यात्, पृथिवीमध्यान्निवासभूतदेशवाचिनश्चरणे एव निवस्तरि नान्यत्र ततश्च मध्यमीयाश्चरणा माध्यमः शूद्र इति वैपरीत्यं स्यादतस्तन्मा भूदित्यण् ग्रहणम् । वेणुकादिभ्य ईयण् ॥ ६. ३. ६६ ॥ वेणुक इत्येवमादिभ्यो यथायोगं देशवाचिभ्यः शेषेऽर्थे ईयण् प्रत्ययो भवति । वैणुकीयः, वैत्रकीयः, औत्तरपदीयः, औतरीयः, औतरकीयः, प्रास्थीयः, प्रास्थकोयः, माध्यमकीयः, माध्यमिकीयः, नैपुणकीयः, बहुवचनं प्रयोगानुसरणार्थम् ।६६। न्या. स. वेणु०-वेणवः सन्त्यत्र उत्तराण्यत्र सन्ति, 'ऋश्यादेः कः' ६-२-९४ प्रस्मस्य तुल्यः, मध्यम एव, मध्यममस्यास्ति 'अतोऽनेक' ७-२-६ इतीकः, अल्पा निपुणः, 'कुत्सिताल्पे' ७-३-३३ इति कप् , तत्र भवः । वा युष्मदस्मदोऽत्रीनी युष्माकास्माको चास्यैकत्वे तु तवकममकम् ।। ६. ३. ६७ ॥ देशादिति निवृत्तम्, युष्मद् अस्मद् इत्येताभ्यां शेषेऽर्थे अञ् ईन इत्येतो प्रत्ययौ वा भवतः तत्संनियोगे च यथासंख्यं युष्मदस्मदोयुष्माकास्माको, एकत्वविशिष्ठे त्वर्थे वर्तमानयोस्तवकममकावादेशौ भवतः, प्रत्ययौ प्रति यथासंख्यं नास्ति वचनभेदात् । युष्माकमयं युवयोर्वा यौष्माकः । यौष्माकीणः, अस्माकमयमावयोर्वा आस्माकः आस्माकीनः, पक्षे त्यदादित्वेन दुसंज्ञकत्वादीयः ।
SR No.034257
Book TitleSiddh Hemhandranushasanam Part 03
Original Sutra AuthorHemchandracharya
AuthorUdaysuri, Vajrasenvijay, Ratnasenvijay
PublisherBherulal Kanaiyalal Religious Trust
Publication Year1986
Total Pages570
LanguageSanskrit, Gujarati
ClassificationBook_Devnagari & Book_Gujarati
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy