________________
११८]
बृहद्वृत्ति-लघुन्याससंवलिते [ पा० ३. सू० ६३ ] गहादिभ्यः ॥ ६. ३. ६३ ॥
देशादिति वर्तते । तद्भहादीनां यथासंभवं विशेषणम् । गहादिभ्यो यथासंभवं देशवाचिभ्यः शेषेऽर्थे ईयः प्रत्ययो भवति, अणाद्यपवादः । गहीयः, अन्तस्थीयः । गह, अन्तस्थ, अन्तस्था, सम, विषम, उत्तम, अङ्गमगध, शुक्लपक्ष, पूर्वपक्ष, अपरपक्ष, कृष्णशकुन, अधमशाख, उत्तमशाख, समानशाख, एकशाख, समानग्राम, एकग्राम, एकवृक्ष, एकपलाश, इष्वग्र, दन्ताग्रे, इष्वनीक, अवस्यन्द, कामप्रस्थ, सौप्रख्य, खाडायनि, काठेरणि, काठेरिणि, लावेराणि, लावेरिणि, लावीरणि, शौशिरि, शौङ्गि, शौङ्गिशैशरि, आसुरि, आहिंसी, आमित्रि, व्याडि, भौङ्गि, भौजि, भौजि, आध्यश्वि, आश्वत्थि, औद्धाहमानि, औपविन्दवि, आग्निशमि, देवमि, श्रीति, बाटारकि, वाल्मीकि, क्षेमधृत्वि, उत्तर, अन्तर, मुखतस्, पार्श्वतस्, एकतस्, अनन्तर, आनुशंसि, साटि, सौमित्रि, परपक्ष, स्वक, देवक, इति गहादयः । बहुवचनमाकृतिगणार्थम् ।६३।
न्या० स० गहादि०-अथ गणः, गाह्यते घम् , पृषोदरादित्वात् ह्रस्वत्वे गहः, अन्ते तिष्ठति अन्तस्थः, अन्तस्थाः, समति अच् समः, विगतः समात् विषमः, उत्ताम्यति बहूनां प्रकृष्ट . उत्कृष्टो वा उत्तमो देशः अगाश्च मगधाश्च अङ्गमगधाः, शुक्लश्चासौ पक्षश्च शुक्लपक्षः, एवं पूर्वपक्षः, अपरपक्ष:, कृष्ण शकुनः ।।
अधम उत्तमा समाना एका शाखा यस्य, समानश्चासौ ग्रामश्च समानग्रामः, अस्य देशवाचिन एवास्मिन् गणे पाठः, अन्यत्र 'समानपूर्व' ६-३-८९ इति इकण् , एकश्चासौ ग्रामश्च वृक्षश्च पलाशश्च एकग्रामः, एकवृक्षः, एकपलाशः, इषुभिरग्रः प्रधानं इष्वनः, दन्तैरनः दन्ताः , इषु प्रधानान्यनीकानि यत्र इष्वनीकः, अवस्यन्दतेऽत्र अवस्यन्दः, कामेषु प्रतिष्ठते कामप्रस्थः, सुप्रचष्टे सुप्रख्यः सोत्रास्ति तस्य निवासो वा सोप्रख्यः, कठमीरयति, नन्द्यादित्वात् कठेरणस्तस्यापत्यं काठेरणिः, 'ऋद्रुहेकित्' १९५ (उणादि) इरिणं कठस्य इरिणमिव उषरमिव कठेरिणस्तस्यापत्यं काठेरिणिः, लूयते लवः, लवमीरयति लवेरणस्तस्यापत्यं लावेरणिः, लवस्येरिणमिव लवेरिणस्तस्यापत्यं लावेरिणिः, लवोऽस्यास्तीति लवी, लविनमीरयति लवीरणस्तस्यापत्यं लावीरणिः, शिशिरस्यापत्यं शैशिरिः, शुङ्गत्यापत्यं शौड्गिः, शुङ्गस्य शुङ्गाया वापत्यं 'शुङ्गाभ्यां भारद्वाजे' ६-१-६३ अण् शौङ्गश्चासौ शशिरिश्च, असुरस्यापत्यं मासुरिः, बाहादित्वादित्र, न हिनस्ति, न विद्यते हिंसा यस्य वा अहिंसस्तस्यापत्यं आहिसिः, न मित्रममित्रः, प्रसो वा तस्यापत्यं आमित्रिः, व्यडस्यापत्यं भोजस्य भूर्जस्य अध्यश्वस्य अश्वत्थस्य उद्गाहमानस्यापत्यं 'अत इञ्। ६-१-३१ उपविन्दोः अग्निशर्मणो देवशर्मणोऽपत्यं बाह्लादित्वादिञ् , श्रुतस्यापत्यं श्रौतिः, बटारं कायति तस्यापत्यं वल्मीकस्यापत्यं 'अत इञ्' ६-१-३१, क्षेमं धृतवान क्षेमधृत्वा तस्यापत्यं बाहादित्वादि क्षेमधृत्वि:, उतरति उत्तरः, 'अनिकाभ्यां तरः, ४३७ (उणादि) इति अन्तं राति वा अन्तरः, एक तस्यति क्विप् एकताः, न अन्तरः अनन्तर:. नन् शंसति नृशंसः, न नृशंसः अनृशंसस्तस्यापत्यं आनुशंसिः, षट् अवयवे, सति सटस्तस्यापत्यं साटिः, सुमित्राया अपत्यं सौमित्रिः, बाह्वादित्वादि , परस्य पक्ष पर पक्षः इति गहादिगणः ।