SearchBrowseAboutContactDonate
Page Preview
Page 143
Loading...
Download File
Download File
Page Text
________________ [पाद. ३ सू. ५९-६२] श्रीसिद्धहेमचन्द्राशब्दानुशासने षष्ठोध्यायः [ ११७ कखोपान्त्यकन्थापलदनगरग्रामहदोत्तरपदादोः ॥ ६. ३. ५९ ॥ ककारखकारोपान्त्यात्कन्थापलदनगरग्रामहूद इत्येतदुत्तरपदाच्च देशवाचिनो दुसंज्ञकात् शेषेऽर्थे ईय: प्रत्ययो भवति । बाधकबाधनार्थ आरम्भः, कोपान्त्यात् कोपान्त्यलक्षणेऽणि प्राप्ते । आरोहणकीयः, द्रौघणकीयः, आश्वस्थिकीयः, शाल्मलिकीयः, सौषुकीयः, आष्टकीयः, ब्राह्मणकीयः, बालकीयः । खोपान्त्यात् वाहीकग्रामलक्षणयोणिकेकणोः, कौटशिखीयः, माटिशिखीयः, अयोमुखीयः । कन्थापलदोत्तरपदात्तयोरेव । दाक्षिकन्थीयः, माहकिकन्थीयः, दाक्षिपलदीयः, माहकिपलदीयः । नगरोत्तरपदाद्रोपान्त्यलक्षणेऽकत्रि, दाक्षिनगरीयः, माहकिनगरीयः । ग्रामह्रदोत्तरपदात् णिकेकणोरेव । दाक्षिग्रामीयः, माहकिग्रामीयः, दाभिह्रदीयः, माहकिह्रदीयः । दोरिति किम् ? माषिकः, माडनगरः ॥५९।। __ न्या० स० कखो०-बाधकबाधनार्थ इति 'दोरीयः' ६-३-३२ इति ईयस्य ये बाधकाः कोपान्त्याच्चेत्येवमादयस्तेषां बाधनं बाधस्तदर्थोऽयमारभ्या इत्यर्थः, एतदेव कोपान्त्यादित्यादिना स्पष्टयन्नुदाहरति । . आष्टकीय इति 'इर्ष्याश' ७७ ( उणादि) इति तककि साध्यः अष्टौ कायति वा, अष्टावध्याया मानमस्येति वा पश्चात् 'तदत्रास्ति' ६-२-७० इत्यण , इहान्तग्रहणादेव केवलस्य निवृत्तौ दुत्वाच्च गर्वोत्तरपदवद् बहुपूर्वनिवृत्त्यर्थमित्याशङ्कायाअभावे उत्तरपद्ग्रहणं कन्थाद्यन्तोत्तरपदाग्रहणार्थ, 'प्रस्थपुरवहान्त' ६-३-४३ इत्यत्र त्वन्तग्रहणात् प्रस्थाद्यन्तोत्तरपदग्रहस्यापीष्टत्वात् । पर्वतात् ॥ ६. ३. ६० ॥ पर्वतशब्दाद्देशवाचिनः शेषेऽर्थे ईयः प्रत्ययो भवति, अणोऽपवादः । पर्वतीयो राजा । पर्वतीयः पुमान् ।६०। अनरे वा ॥ ६. ३. ६१ ॥ पर्वताद्देशवाचिनो नरवजिते शेषेऽर्थे ईयः प्रत्ययो भवति वा । पर्वतीयानि पार्वतानि फलानि, पर्वतीयं पार्वतमुदकम् । अनर इति किम् ? पर्वतीयो मनुष्यः ।६१॥ पर्णकणाद्भारद्वाजात् ॥ ६. ३. ६२ ॥ पर्णकृकण इत्येताभ्यां भारद्वाजदेशवाचिभ्यां शेषेऽर्थे ईयः प्रत्ययो भवति, अणोऽपवादः । पर्णीयः। कृकणीयः। भारद्वाजादिति किम् ? पार्णः, कार्कणः ।६२।
SR No.034257
Book TitleSiddh Hemhandranushasanam Part 03
Original Sutra AuthorHemchandracharya
AuthorUdaysuri, Vajrasenvijay, Ratnasenvijay
PublisherBherulal Kanaiyalal Religious Trust
Publication Year1986
Total Pages570
LanguageSanskrit, Gujarati
ClassificationBook_Devnagari & Book_Gujarati
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy