________________
[पाद. ३. सू. ३६-३८ ] श्रीसिद्धहेमचन्द्रशब्दानुशासने षष्ठोध्यायः [ १०९
अरीन दमयति 'भृवृजि' ५-१-११२ इति अरिंदमः, धानं धाः 'क्रुत्संपत्' ५-३-११४ इति क्विप् , सह धा वर्तते सधः, सधो मित्रमस्य सधमित्रः, दाशो दासो मित्रमस्य दाशमित्रः दासमित्रः, छागो मित्रमस्य छागमित्रः, दासस्य ग्रामः दासप्रामः, शुनः संकोचस्तमवतनोति शौवाचतानः, गा वाश्यत इति नन्द्यादित्वादने गोवाशनोऽत्रास्ति गोवाशनः, वासण , गाः वासयति सोऽत्रास्ति गौवासनः ।
तरङ्गस्यापत्यं तारगिः भृशुः ल्वादित्त्वादशै भरकास्याफ्त्यं भारगिः, युवा चासौ यजा च युवरानः ।
राज्ञः समीपं उपराजम् , देवस्व राजा देवराजः । वाहीकेषु प्रामात् ॥ ६. ३. ३६ ।।
वाहीकदेशे ग्रामवाचिभ्यो दुसंज्ञकेभ्यः शेषेऽर्थे णिक इकण इत्येतो प्रत्ययौ भवतः । कारन्तपिकः, कारंतपिका, कारंतपिकी, शाकलिकः, शाकलिका, शाकलिकी, मान्थविकः, मान्थविका, मान्यविकी, आरात्कः, आरात्का, आरात्की, सैपुरिकः, सैपुरिका सैपुरिकी स्कौनगरिकः, स्कौनगरिका, स्कोनगरिकी, नापितवास्तुकः इत्यत्र तु परत्वात् ' उवर्णादिकण' (६-३-३८) इतीक ण् । वातानुप्रस्थक: नान्दीपुरकः कौक्कुटीवहकः दासरूप्यकः इत्येतेषु 'प्रस्थपुरवहान्तयोपान्त्यधन्वार्थात् ' (६-३-४२) इति परस्वादकञ् । सौसुकीय इत्यत्र कोपान्त्यलक्षण ईयोऽपवादत्वाच्च भवति । कथं मौजीयम् ? मौजं नाम वाहीकावधिरत्यदीयो ग्रामो न वाहीकग्राम इत्येके, अन्ये तु दश द्वादश बा ग्रामा विशिष्टसंनिवेशावस्थाना मौजं नामेति ग्रामसमूह एवायं न ग्रामः, नापि राष्ट्रम् येन राष्ट्रलक्षणोऽकञ् स्यात् इति मन्यते । दोरित्वेव ? देवदत्तं नाम वाहीकग्रामः तत्र जाती देवदत्तः ।३६।
न्या० स० वाही०-अपवादत्त्वाच्चेति न केवलं परत्वान्नापि राष्ट्रमिति विशिष्टस्यैव प्रामसमुदायस्य राष्ट्रत्वात् । वोशीनरेषु ॥ ६. ३. ३७ ॥
उशीनरेषु जनपदे यो ग्रामस्तद्वाचिनो दुसंज्ञकाच्छेषेऽर्थे णिकेकणौ प्रत्ययौ वा भवतः। आह्वजालिकः, आह्वजालिका, आह्वजालिकी, सौदर्शनिकः, सौदर्शनिका, सौदर्शनिकी, पक्षे आहजालीयः सौदर्शनीयः ॥३७॥ वृजिमदाद्देशात्क ।। ६. ३. ३८॥
वजिमद्रशब्दाभ्यां देशवाचिभ्यां शेषेऽर्थे कः प्रत्ययो भवति, राष्ट्राकओऽपवादः । दोरिति निवृत्तम् । वृजिकः, मद्रकः । सुसर्धिदिक्शन्देभ्यो