________________
१०८]
बृहद्वृत्ति-लघुन्याससंवलिते [पाद. ३ सू० ३५ । इत्येतो प्रत्ययौ भवतः । उभयोः खियां विशेषः। वैकालिकः, वैकालिका, वैकालिकी, आनुकालिकः, आनुकालिका, आनुकालिकी, ऐदंकालिका, ऐदकालिकी, धौमकालिका, धौमकालिकी, आपत्कालिका, आपत्कालिकी, सांपत्कालिका, सांपत्कालिकी, कोपकालिका, कोपकालिकी, क्रोधकालिका, क्रोधकालिकी, और्वकालिका, और्वकालिकी, पौर्वकालिका, पौर्वकालिकी, तात्कालिका, तात्कालिकी, क्रौरकालिका, क्रोरकालिकी । व्यादयः प्रयोगगम्याः ।३४॥ काश्यादेः ॥ ६. ३. ३५॥
दोरिति वर्तते, पूर्वयोगयोस्तु न संबध्यते, व्यापारासंभवात् । काशीत्येवमादिभ्यो दुसंज्ञकेभ्यः शेषेऽर्थे णिक इकण् इत्येतो प्रत्ययौ भवतः । काशिकः, काशिका, काशिकी, चैदिकः, चैदिका, चैदिकी। दोरित्येव ? देवदत्तं नाम वाहीकग्रामः, तत्र जाती देवदत्तः, देवदत्तशब्दस्य प्राग्देशे एव दुसंज्ञा न वाहीकेष्विति न भवति, नाप्युत्तरेण । तत्रापि दोरित्यनुवर्तनात, प्राग्ग्रामेषु तु दुसंज्ञकत्वेन काश्यादित्वाद्भवत्येव । दैवदत्तिका, देवदत्तिकी। येषां तु काश्यादोनां दुसंज्ञा न संभवति तेषां पाठसामाद्भवति । चेदिशब्दसाहचर्याच्च काशिशब्दो जनपद एव वर्तमान इमो प्रत्ययावुत्पादयति नान्यत्र । काशोयाश्छात्राः । काशि, चेदि, देवदत्त, सांयाति, सांवाह, अच्युत, मोदमान, श्वकुलाल, शकुलाद, हस्तिकडू, कौनाम, हिरण्य, करण, हैहिरण्यः, करणे, अरिंदम, सधमित्र, दाशमित्र, सिन्धुमित्र, दासमित्र, छागमित्र, दासग्राम, शौवावतान, गौवाशन, गोवासन, तारङ्गि, भारङ्गि युवराज, उपराज, देवराज इति काश्यादिः ।३५॥ ___न्या० स० काश्या०-व्यापारासंभवादिति फलाभावादित्यर्थः, पूर्वयोगयोहि दुसंज्ञस्यादुसंज्ञस्य च भवति, गणपाठसामर्थ्यात् अनेन तु येषां दुसंज्ञत्वमदुसंज्ञत्वं च तेषां देवदत्त इत्यादीनां दुःसंज्ञानामेव । अथ गणः, काशते 'पदिपठी' ६०७ (उणादि) इति काशिः,चदेग मण्यादित्वादिः एवं च, देवा एनं देयासुर्देवदत्तः संयाति स्म संयातस्तस्यापत्यं इनि सांयातिः ।
न च्यवते स्म अच्युतो विष्णुः मोदते मोदमानः, शुनां कुलं श्वकुलमलति श्क्कुलालः, 'हृषिवृषि' ४८५ ( उणादि) इति शकुलः, शकुलान् मत्स्यान् आदत्ते अचि वा शकुलादः, हस्तिनः कर्परिव नदी इव स देशो हस्तिकषूः, कु पृथ्वी नामयति कुनामोऽत्रास्ति कौनामः, हिरण्यस्य करणं हिरण्यकरण, हिनोति हेः तस्य हिरण्यं तदत्रास्ति हैहिरण्यः करण इति कोऽर्थः?
करणार्थे हिरण्यः प्रशस्यते, अन्ये वाहुः हिरण्यकरण एवंविधो ध्वनिः समस्त एवात्र पठ्यते, तदेवं संश्लिष्टनिर्देशेन संगृहीतं, सिन्धुमित्रमस्य सिन्धुमित्रः ।