________________
[पाद. ३ सू. ३०-३४] श्रीसिद्धहेमचन्द्राशब्दानुशासने षष्ठोध्यायः [ १०७ प्रत्ययो न भवति । पूर्वेण प्राप्तस्य प्रतिषेधः । प्राचः चैकीयाः, पौष्पीयाः। चिङ्कपुष्पशब्दावाबन्तावपि तत्र वाह्वादित्वादिञ् । भरतात, काश काशीयाः, वाश वाशीयाः । द्विस्वरादिति किम् ? पानागारेच्छात्राः पान्नागाराः, मान्थरेषणाः। प्राग्भरतादिति किम् ? दाक्षाः, प्लाक्षाः, प्राग्ग्रहणे भरतानां ग्रहणं न भवतीति स्वशब्देन ग्रहणम् ।२९। भवतोरिकणीयसौ ॥ ६. ३. ३०॥
भवतुशब्दाच्छेषेऽर्थे इकण ईयस् इत्येतो प्रत्ययो भवतः, ईयापवादौ । भवतः भवत्या वा इदं भावत्कम्, भावत्की, भवदीयः, भवदीया, सकारो 'नाम सिदय्व्यञ्जने' (१-१-२१) इति पदत्वार्थः। उकारान्तग्रहणात् शत्रन्तान्न भवति, भवत इदं भावतम् ।३०।
न्या० स० भव०-शत्रन्तान भवतीति ननु तर्हि यदा मत्वन्तता क्रियते, भमस्यास्तीति भवत् , तदा कथं न भवति यत उकारानुबन्धोऽस्ति ? न, तदा मतुरेवोकारानुबन्धो न तु तदन्तः । अथ मतुरुकारानुबन्धस्तद्योगाद् भवच्छब्दोऽपि तथोच्यते ! नैवं, लाक्षणिकत्वाल्लक्षणप्रतिपदोक्तयोः इति न्यायात् । यद्येवं तर्हि औणादिकस्यापि न प्राप्नोति, यतो डषतुरयमुकारानुबन्धः ? सत्य, अव्युत्पत्तिपक्षाश्रयणाददोषः। . परजनराज्ञोऽकीयः ॥ ६. ३. ३१ ॥
एभ्यः शेषेऽर्थेऽकीय: प्रत्ययो भवति । परकीयः, जनकीयः, राजकीयः, अकारः पुवद्भावार्थः । राझ्या इदं राजकीयम्, स्वकीयं देवकीयमिति तु स्वकदेवकयोर्गहादित्वात् सिद्धम् । ये तु स्वदेवशब्दाभ्यामकीयमिच्छन्ति तेषां स्वस्येदं सौवम् देवमायुः दैवी वाक् इत्यादि न सिध्यति ।३१॥ दोरीयः ॥ ६. ३. ३२॥
दुसंज्ञकाच्छेषेऽर्थे ईयः प्रत्ययो भवति, देवदत्तीयः, जिनदत्तीयः तदीयः, यदीयः, गार्गीयः, वात्सोयः, शालीयः, गोनीयः, भोजकटीयः । दोरिति किम् ? सभासन्नयने भव, साभासन्नयनः । अणपवादो योगः ॥३२॥ उष्णादिभ्यः कालात् ॥ ६. ३. ३३ ॥
उणादिपूर्वपदात्कालान्ताच्छेपेऽर्थे ईयः प्रत्ययो भवति । उष्णकालीयः, बहुवचनं प्रयोगानुसरणार्थम् ।३३।... व्यादिभ्यो णिकेकणौ ॥ ६. ३. ३४ ॥
वि इत्येवमादिभ्यः परो यः कालशब्दस्तदन्ताच्छषेऽर्थे णिक इकण