SearchBrowseAboutContactDonate
Page Preview
Page 132
Loading...
Download File
Download File
Page Text
________________ १०६ ] बृहद्वृत्ति-लघुन्याससंवलिते [ पा० ३. सू० २६-२९ ] गौष्टीतकीनैकेतीगोमतीशूरसेनवाहीकरोमकपटच्चरात् ॥ ६.३. २६ ॥ गोष्टयादिभ्यः शेषेऽर्थेऽञ् प्रत्ययो भवति गौष्टः, तैकः, नैकेतः, एभ्यो वाहीकग्रामलक्षणयोणिकेकणोस्तैक्याः कोपान्त्यलक्षणस्येयस्य चापवादः । गोमतः, अस्मिन्नोल्लक्षणस्याकञः । शौरसेनः, अत्र राष्ट्राकञः । वाहोकः, रौमकः । अत्र दुलक्षणस्येयस्य । पाटच्चरः, अत्र रोपान्त्यलक्षणस्याकञः। एके तु गौष्ठीस्थाने गोष्ठी तैकीस्थाने तैकी नैवीं च पठन्ति ।२६। . . न्या. स. गौष्ठी०-अत्र दुलक्षणेति वाहीकशब्दस्य पुरुषवाचिनो 'दोरीयः' ६-३-३२ इत्यस्य देशवाचिनस्तु 'कखोपान्त्ये' ६-३-५९ इत्यस्याप्यपवादः तदुभयमपि दुलक्षणस्येत्यनेन श्लिष्टनिर्देशेन संगृहीतं, यत उभाभ्यामपि दुसंज्ञायां विधानात् , रोमकस्य तु 'कखोपान्त्ये'. ६-३-५९ इत्यस्यैव, यतस्तस्य पुरुषवाचिनो दुसंज्ञा न प्राप्नोति, देशवाचिनस्तु 'प्राग्देशे' ६-१-१० इति दुसंज्ञा । शकलादेर्यत्रः ॥ ६. ३. २७ ॥ शकलादिभ्यो यअन्तेभ्यः शेषेऽर्थेऽञ् प्रत्ययो भवति । ईयस्यापवादः। गर्गाद्यन्तर्गणः शकलादिः । शकलस्यापत्यं वृद्ध शाकल्यः । तस्य छात्राः शाकलाः । एवं काष्ठाः । गौकक्षाः । वामरथाः। यत्र इति किम् । शकलो देवतास्य शाकलः, तस्येदं शाकलीयम् । कण्ठादागतः काण्ठः तस्य छात्राः काण्ठीयाः ।२७। वृद्धवः ॥ ६. ३. २८ ॥ वृद्ध य इञ् विहितस्तदन्ताच्छेषेऽर्थेञ् प्रत्ययो भवति, ईयस्यापवादः । दक्षस्यापत्यं वृद्ध दाक्षिस्तस्य छात्राः दाक्षाः, प्लाक्षाः । वृद्धति किम् ? सुतंगमेन निर्वत्ता सौतंगमी नगरी तस्यां भवः सौतंगमीयः । शालऊरपत्यं युवा शालकिः , 'यजिनः' (६-१-५४) इत्यायनणः पैलादिपाठाल्लुप् । तस्य छात्राः शालङ्का इत्यत्र तु आयनणि लुप्ते यद्यपीजन्तं यूनि वर्तते तथापीञ् वृद्ध इत्यजेव भवति ।२८। न्या. सवृद्धत्रः-यूनि वर्तत इति 'वृद्धायूनि' ६-१-३० इत्यत्र यूनोऽपि वृद्धसंज्ञाकार्यदर्शनादत्र इअन्तस्य वृद्धाप बत्तनमित्याश्रयणे औपगवस्थापत्यं युवा, औपगविस्तस्य छात्रा औपगवीयाः एवं पाणनीया इत्यादावपि स्यात् , अतो मुख्यत्वावृद्ध एवेति व्याख्येयम् । न द्विस्वरात् प्रागभरतात् ॥ ६. ३. २९ ॥ प्राच्यगोत्रवाचिनो भरतगोत्रवाचिनश्च नाम्नो वृद्धअन्ताद्विस्वराद
SR No.034257
Book TitleSiddh Hemhandranushasanam Part 03
Original Sutra AuthorHemchandracharya
AuthorUdaysuri, Vajrasenvijay, Ratnasenvijay
PublisherBherulal Kanaiyalal Religious Trust
Publication Year1986
Total Pages570
LanguageSanskrit, Gujarati
ClassificationBook_Devnagari & Book_Gujarati
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy