SearchBrowseAboutContactDonate
Page Preview
Page 131
Loading...
Download File
Download File
Page Text
________________ [पाद ३. सू. २३-२५] श्रीसिद्धहेमचन्द्रशब्दानुशासने षष्ठोध्यायः [ १०५ माणिरूप्ये जातो माणिरूप्यक इत्यत्र तु दुसंज्ञकत्वेन परत्वात् 'प्रस्थपुर'(६-३-४२) इत्यादिना ज्योपान्त्यलक्षणोऽकमेव भवति । अन्तग्रहणेनैव सिद्ध उत्तरपदग्रहणं बहुप्रत्ययपूर्वनिवृत्त्यर्थम् । बाहुरूप्यी ।२२।। दिक्पूर्वादनाम्नः ॥ ६. ३. २३ ॥ दिकपूर्वपदादनाम्नोऽसंज्ञाविषयाच्छेषेऽर्थे णः प्रत्ययो भवति, अणोऽपवादः । पौर्वशालः, पौवंशाला, आपरशालः, आपरशाला। अनाम्न इति किम् ? पूर्वेषुकामशमी नामः ग्राम, तस्यां भवः पूर्वंषुकामशमः, एवमपरैषुकामशमः, पूर्वकार्णमृत्तिका, अपरकाष्र्णमृत्तिका। 'प्राग्ग्रामाणाम्' (७-४-१७) इत्युत्तरपदवृद्धिः ।२३। __ न्या० स० दिक्पू०-पौवंशाला इति यदा पूर्वशब्दो देशकालवाची तदा पूर्वशालायां भवाणि पौर्वशालीति भवति, यदा तु पूर्वशब्दो दिक्शब्दस्तदा पूर्वस्यां शालायां भवस्तद्धितविषये ‘दिगधिकम् ' २-१-९८ इति तत्पुरुषकर्मधारयो द्विगुस्तु संख्यापूर्वपदत्वाभावात तवाऽनेन णः । मद्रादुञ् ॥ ६. ३. २४॥ . मद्रान्ताद्दिकपूर्वपदाच्छेषेर्थेऽञ् प्रत्ययो भवति । पूर्वेषु मद्रेषु भवः पौर्वमद्रः, पौर्वमद्री, 'बहुविषयेभ्यः' (६-१-४४) इत्यकञ् प्राप्तस्तदपवादे 'वृजिमद्राद्देशात्कः' (६-३-३७) इति के प्राप्तेऽञ्वचनम् । केवलादेव मद्रादक कविधिरिति चेत् तीदमेव ज्ञापकं सुसधिदिक्शब्देभ्यो जनपदस्योति तदन्तविधेः । तेन सुपाञ्चालकः, सर्वपाञ्चालकः, अर्धपाश्चालकः, पूर्वपाञ्चालकः, अपरपाञ्चालकः, सुमागधकः, सर्वमागधकः, सुवृजिकः, सुमद्रकः इत्यादि सिद्धम् ।२४। न्या० स० मद्रा०-ननु अधिकारायातो ण एव भविष्यति किमकरणेन? सत्य, णाधिकारे अवचनं स्थर्थ, तथापि न कर्तव्यं मद्रादित्येव कृते यथाविहितः प्रागूजितादणेव भविष्यति, न तु णः, कुनः दिक्पूर्वान्मद्राच्चानाम्न इत्येकयोगाकरणात् ? सत्यं, मद्रादित्येव सिद्धौ यो हि येन बाधितो न प्राप्नोति तदर्थमिदं स्यादिति कबाधिताकवर्थ स्यात् , स माभूदित्येवमर्थ, उत्तरार्थ चेति शकटः । उदग्ग्रामाद्यकल्लोम्नः ॥ ६. ३. २५ ॥ उदग्ग्रामवाचिनो यकृल्लोमन् शब्दाच्छेषेऽर्थेऽञ् प्रत्ययो भवति । याकृल्लोमः। उदग्ग्रामादिति किम् । अन्यस्मादणेव । याकुल्लोमनः । यकल्लोम्न इति किम् ? प्रेक्षिणि भवः प्रैक्षिणः, कोष्टिन्यां भवः कौष्टिनः ॥२५॥
SR No.034257
Book TitleSiddh Hemhandranushasanam Part 03
Original Sutra AuthorHemchandracharya
AuthorUdaysuri, Vajrasenvijay, Ratnasenvijay
PublisherBherulal Kanaiyalal Religious Trust
Publication Year1986
Total Pages570
LanguageSanskrit, Gujarati
ClassificationBook_Devnagari & Book_Gujarati
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy