________________
१०४ ]
बृहबृत्ति-लधुन्याससंलिते [पाद. ३ सू० १६-२२ ] क्वेहामात्रतसस्त्यच् ॥ ६. ३. १६ ॥
क इह अमा इत्येतेभ्यस्त्रतस्प्रत्यान्तेभ्यश्च शेषेऽर्थे त्यच् प्रत्ययो भवति । कत्यः, इहत्यः, अमात्यः, तत्रत्यः, यत्रत्यः, ततस्त्यः, यतस्त्यः, कुतस्त्यः । आविश्शब्दादपि कश्चित् । आविष्टयः, चकारस्त्यण्त्यचो: सामान्य ग्रहणाविघातार्थः ।१६।
न्या० स० क्वेहा.-अत्र तसितस् सानुबन्धित्वान्न गृह्येते, कौश्चित्प्रातस्त्यप् इति सूत्रं व्यवधायि, तेन प्रातस्त्य इत्यपि सिद्धं, स्वमते तु 'क्वेह' ६-६-१६ इत्यायव्ययोपलक्षणं, तेन यथार्थदर्शनमन्येषामपि अव्ययानां भवति । ___सामान्यग्रहणेति अन्यथा 'स्त्रज्ञाजभन' २-४-१०८ इत्यादौ त्यग्रहणे निरनुबन्धत्वादस्यैव ग्रहः स्यात् । नेफ्रेवे ॥ ६. ३. १७ ।।
निशब्दात् ध्रुवेऽर्थे त्यच् प्रत्ययो भवति । नित्यं ध्रुवम् ॥१७॥ निसो गते ।। ६. ३.१८॥
निस्शब्दातेऽर्थे त्वच् प्रत्ययो भवति । निर्गतो वर्णाश्रामेभ्यो निष्टयचण्डालः ।१८। ऐषमोह्यःश्वसो वा ।। ६. ३. १९॥
एषमस्, ह्यस्, श्वस् इत्येतेभ्यः शेषेर्थे त्वच् प्रत्ययो वा भवति । ऐषमस्त्यम्, ऐषमस्तनम्, ह्यस्त्यम्, ह्यस्तनम्, श्वस्त्यम्, श्वस्तनम् । 'श्वसस्तादिः' (६-३-८३) इति इकणपि भवति । शोवस्तिकम् ।१९। कन्थाया इकण ।। ६. ३. २० ॥
कन्था ग्रामविशेषः, कन्थाशब्दात् शेषेऽर्थे इकण् प्रत्ययो भवति । कान्थिकः ।२०। वर्णावकञ् ॥ ६. ३. २१ ॥
वर्णन म हृदः । तस्य समीपो देशोऽपि वर्ण: तत्र या कन्था ततः शेषेऽर्थेऽकञ् प्रत्ययो भवति । इकणोऽपवादः। कान्थकः ॥२१॥ रूप्योत्तरपदारण्याण्णः ॥ ६. ३. २२ ॥
रूप्योत्तरपदादरण्यशब्दाच्च शेषेऽर्थे णः प्रत्ययो भवति । वार्करूप्यः वार्करूप्या । शैविरूप्यम्, शैवरूप्यम्, आरण्याः सुमनसः, आरण्याः पशवः ।