________________
[पाद. ३. सू. १२-१५] श्रीसिद्धहेमचन्द्रशब्दानुशासने षष्ठोऽध्यायः [१०३ कुलकुक्षिग्रीवाच्छवास्यलङ्कारे ॥ ६. ३. १२ ॥
कुलकुक्षिग्रीवा इत्येतेभ्यो यथासंख्यं श्वास्यलङ्कारविशिष्टे प्राग्जितीये शेषेऽर्थे एयकञ् प्रत्ययो भवति, अणोऽपवादः। कुले शुद्धान्वये भवो जातो वा कौलेय कः श्वा, कोलोऽन्यः । कोक्षेयकोऽसिः, यः ककुक्षिनिजीर्णेनायसी कृतः। कौक्षोऽन्यः, ग्रैवेयकोऽलंकारः, ग्रैवोऽन्यः ।१२। - न्या० स० कुल०-कुक्षौ ग्रीवायां जातः भवे तु 'दृतिकुक्षि' ६-३-१३० इति ग्रीवातोऽण च' ६-३-१३२ ( इति ) स्यात् ।। दक्षिणापश्चात्पुरसस्त्यण् ॥ ६. ३. १३ ॥
एभ्यः शेषेऽर्थे त्यण् प्रत्ययो भवति, अणोपवादः । दक्षिणा दिक् तस्यां भवो दाक्षिणात्यः अथवा दक्षिणस्यां दिशि वसति ‘वा दक्षिणात्प्रथमासप्तम्या आ' (७-२-११९) इत्याप्रत्यये दक्षिणा तत्र भवो दाक्षिणात्यः पाश्चात्यः, पौरस्त्यः, पश्चात्पुरःशब्दसाहचर्याद्दक्षिणा इति दिक्शब्दोऽव्ययं वा गृह्यते, तेनेह न भवति, दक्षिणायां भवानि दाक्षिणानि जुहोति । अत्र दक्षिणाशब्दो गवादिवचन:, अव्ययादेवेच्छन्त्येके ।१३।
न्या० स० दक्षि०-दाक्षिणात्य इति 'कौण्डिन्यागस्तयोः' ६-१-१२७ इति कौण्डिन्यनिर्देशात् पुंभावोऽनित्यः, तेन ‘सर्वादयोऽस्यादौ' ३-२-६१ (इति) न, यदा त्वाप्रत्ययस्तदा अव्ययत्वात् डेलुपि दक्षिणाभवः पुंभावोऽपि न असर्वादित्वात् । ____पाश्चात्य इति अपरा दिक् देशो वा रमणीयः, 'अधरापराश्चात् ' ७-२-११८ पूर्वा पूर्वो वा दिक् देशो वा रमणीयः, 'पूर्वावराधरेभ्य' ७-२-११५ इत्यस् , पश्चाद्भवः पुरोभवः । वहल्यर्दिपदिकापिश्याष्टायनण् ॥ ६.३.१४॥
वह्वि आदि पदि कापिशी इत्येतेभ्यः शेषेऽर्थे टायनण प्रत्ययो भवति । वाह्लायनः, बाह्लायनी, औयनः, और्दायनी, पायनः, पार्दायनी । कापिशायनं मधु, कापिशायनी द्राक्षा, वल्हीति ऊष्मोपान्त्यः । केचिदत्र वकारं दीर्घान्तं पठन्ति ।१४।।
न्या० स० बल्य-वल्हिः देशविशेषः, ऊर्दिः क्रीडा, पर्दिः पर्दनक्रीडा, कपिशा मर्कटा अत्र सन्ति, तदत्रास्ति कापिशी अटवी । रोः प्राणिनि वा ॥ ६. ३.१५॥
रङ्कुशब्दात्प्राणिविशिष्ठे शेषेऽर्थे टायनण् प्रत्ययो वा भवति । राङ्कवायणः, पक्षेऽण् । राङ्कवो गौः । प्राणिनीति किम् ? राङ्कवः कम्बलः । मनुष्ये तुप्राणिन्य पि कच्छादिपाठात् 'कच्छादे नृस्थे' (६-३-५४) इति परत्वादकडेव भवति । राङकवको मनुष्य: ॥१५॥