SearchBrowseAboutContactDonate
Page Preview
Page 136
Loading...
Download File
Download File
Page Text
________________ ११० J बृहद्वृत्ति- लघुन्यास संवलिते [ पाद. ३. सू. ३९-४२ ] जनपदवाचिनः प्रत्ययो भवति । तत्र मद्रात् दिक्पूर्वपदात् ' मद्रादञ् ' ( ६ - ३ - २४ ) इत्यञ् विहितः शेषपूर्वपदात्वयं भवति । सुमद्रकः, सर्वमद्रकः, अर्धमद्रकः, सुवृजिकः, सर्ववृजिकः, अर्धवृजिकः, पूर्ववृजिक, अपरवृजिक : देशादिति किम् ? मनुष्यवृत्ते वर्जिमाद्रः |३८| वर्णादिक ॥ ६. ३. ३९ ॥ वर्णान्ताद्देशवाचिनः शेषेऽर्थे इकण् प्रत्ययो भवति । 'अणोऽपवादः परत्वादीयणिके कणोऽपि बाधते । शबरजम्ब्वां भवः शाबर जम्बुकः । निषादक भवः नैषादकषुकः । दाक्षिक दाक्षिकषुकः । प्लाक्षिकष्व प्लाक्षिकर्षुकः । नापितवास्तुर्वाहीकग्रामः तत्र भवो नापितवास्तुकः । यस्तु प्राग्ग्रामस्तस्मादुत्तरेण भवति । आव्रोतमायौ भवः आव्रीतमायवकः । जिह्नषु जैह्नबक इति परत्वाद्योपान्त्यलक्षणो राष्ट्रलक्षणश्वा कञ्, ऐक्ष्वाक इत्यत्र तु कोपान्त्यलक्षणोऽण् । उवर्णादिति किम् ? देवदत्तः । देशादित्येव । पटो छात्राः पाटवाः । ३९ । न्या० स० उबर्णा [० - ननु ' ऋवर्णोवर्ण' ७-४-७१ इति इकारलोपेन भाव्यं, ततः कणित्येव क्रियताम् ? न, स्त्रियां ङीर्न स्यात् । शाबरजम्बुक इत्यत्र औत्सर्गिकाऽणो दाक्षिकर्षक इत्यत्रेत्यस्य. fecare इत्यत्र 'वाहीकेषु' ६-३-३६ इति णिके कणोः प्राप्तिः । दोरेव प्राचः ।। ६. ३.४० ।। शरावत्या नद्याः प्राच्यां दिशि देशः प्राग्देशः तद्वाचिन उवर्णान्ताद्दुसज्ञकादेव इकण् प्रत्ययो भवति । आषाढजम्ब्वां भव: आषाढजम्बुकः, नापितवास्तौ जातः नापितवास्तुकः, पूर्वेण सिद्धे नियमार्थं वचनम् । इह न भवति मल्लवास्तुः प्राग्ग्रामः माल्लवास्तव: । एवकार इष्टावधारणार्थः । दोः प्राच एवेति नियमो मा भूत् |४०| न्या० स० दोरे० - आषाढजम्बूक इति 'चन्द्रयुक्त ' ६-२-६ इत्यणि आसाढा प्रयोजनमस्य विशाखाषाढा ६-४- १२० इत्यण् तस्य जम्बूस्तत्र भवः । ईतोऽकञ् ।। ६.२.४१ ॥ दोर्देशात्प्राच इति च वर्तते । ईकारान्तात्प्राग्देशवाचिनो दुसंज्ञकाच्छेषेsrse प्रत्ययो भवति, ईयस्यापवादः । काकन्द्यां भवः काकन्दकः, माकन्द्यां भवः माकन्दकः, प्राच इत्येव ? दात्तामित्र्यां भवः दात्तामित्रीयः । ४१ । रोपान्त्यात् ॥ ६. ३. ४२ ।। रेफोपान्त्यात्प्राग्देशवाचिनो दुसंज्ञकाच्छेषेऽर्थेऽकञ् प्रत्ययो भवति, यस्यापवादः । पाटलिपुत्रकः, एकचत्रकः ॥४२॥
SR No.034257
Book TitleSiddh Hemhandranushasanam Part 03
Original Sutra AuthorHemchandracharya
AuthorUdaysuri, Vajrasenvijay, Ratnasenvijay
PublisherBherulal Kanaiyalal Religious Trust
Publication Year1986
Total Pages570
LanguageSanskrit, Gujarati
ClassificationBook_Devnagari & Book_Gujarati
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy