________________
९८ ]
बृहवृत्ति-लघुन्याससंवलिते [पाद. २. सू. १३८-१४३ ] कालोऽण् , लुप् 'जाते' ६-३-९८ इत्यणो बाधको ‘वर्षाकालेभ्यः' ६-३-८० इकण् पुनस्तद्बाधको ‘भर्तुसंध्यादेरण' ६-३-८९ ।
इत्याचार्य श्री हेमचन्द्र० षष्ठस्याध्यायस्य द्वितीयः पादः समाप्तः । तत्रोद्धृतेपात्रेभ्यः ॥ ६. २. १३८॥
तत्रेति सप्तम्यन्तात्पात्रवाचिन: उद्धृत इत्यस्मिन्नर्थे यथाविहितं प्रत्ययो भवति । शरावेषु उद्धृत ओदनः शारावः, माल्लकः, कार्परः । पात्रेभ्य इति । किम् ? पाणावुद्धत ओदनः, बहुवचनं पात्रविशेषपरिग्रहार्थम् । १३८५ स्थण्डिलाच्छेते व्रती ॥ ६. २. १३९ ॥
स्थण्डिलशब्दात्सप्तम्यन्ताच्छेते इत्यस्मिन्नर्थे यथाविहितं प्रत्ययो भवति योऽसौ शेते स चेद्वती भवति । तत्र शयनवतोऽन्यत्र शयनान्निवृत्त इत्यर्थः, स्थण्डिल एव शेते स्थाण्डिलो भिक्षुः । व्रती इति किम् ? स्थण्डिले शेते बालः ।१३९। संस्कृते भक्ष्ये ॥ ६. २. १४० ।।
संस्कृत इति प्रत्ययार्थः। तस्य विशेषणं भक्ष्य इति । तत्रेति सप्तम्यतात्संस्कृते भक्ष्ये यथाविहितं प्रत्ययो भवति । सत उत्कर्षाधान संस्कारः, भ्राष्ट्रे संस्कृता भ्राष्ट्रा अपूपाः, एवं कैलासाः। पात्राः । भक्ष्ये इति किम् ? फलक संस्कृता माला ।१४०। शूलोखाद्यः ॥ ६. २. १४१॥
शूलोखाशब्दाभ्यां सप्तम्यन्ताभ्यां संस्कृते भक्ष्ये यः प्रत्ययो भवति । शूले संस्कृतं शूल्यं मांसम्, उखायाम् उख्यम् ।१४१। क्षीरादेयण ॥ ६. २: १४२ ॥
क्षोरशब्दात्सप्तम्यन्तात्संस्कृते भक्ष्ये एयण् प्रत्ययो भवति । क्षीरे संस्कृतं भक्ष्यं क्षैरेयम् । क्षरेयी यवागूः ।१४२। दन इकण ॥ ६. २. १४३ ॥
दधिशब्दात्सप्तम्यन्तात् संस्कृते भक्ष्ये इकण् प्रत्ययो भवति, दधिन संस्कृतं भक्ष्यं दाधिकम् । ननु च संस्कृतार्थे इकण वक्ष्यते तेनैव सिद्धम् ? न सिध्यति । दधना हि तत्संस्कृतं यस्य दधिकृतमेवोत्कर्षाधानम्, इह तु दधि केवलमाधारभूतं द्रव्यान्तरेण तु लवणादिना संस्कारः क्रियते ।१४३।