________________
[पाद. २ सू. १४४-१४५] श्रीसिद्धहेमचन्द्रशब्दानुशासने षष्ठोध्यायः [ ९९ वोदश्वितः ॥ ६. २. १४४ ॥
उदश्विच्छन्द सप्तम्यन्तात् संस्कृते भक्ष्ये इकण प्रत्ययो वा भवति । उदकेन श्वयति उदश्वित्, अत एव निर्देशावृदभावः तत्र संस्कृतं भक्ष्य मौदश्वितम् औदश्वित्कम् ॥१४४॥ कचित् ॥ ६. २. १४५॥
अपत्यादिभ्योऽन्यत्राप्यर्थे क्वचिद्यथाविहितं प्रत्ययो भवति । चक्षुषा गृह्यत इति चाक्षुष रूपम्, श्रावण: शब्दः, रासनो रसः, दृषदि पिष्टा दार्षदा: सक्तवः, उदूखले क्षुण्ण औदूखलो यावकः, चतुर्दश्यां दृश्यते चातुर्दशं रक्षः, चतुभिरुह्यते चातुरं शकटम्, अश्वेरुह्यते आश्वो रथः, संप्रति युज्यते सांप्रतम् सांप्रतः ।१४५।
इत्याचार्यश्रीहेमचन्द्रविरचितायां सिद्धहेमचन्द्राभिधानस्वोपज्ञशब्दानुशासनबृहद्वत्तौ षष्ठस्याध्यायस्य द्वितीयः पादः ॥ ६॥ २॥६॥
मृदित्वा दो:कण्डू समरश्रुवि वैरिक्षितिभुजाम् भुजादण्डे दध्रुः कति न नवखण्डां वसुमतीम् ।। यदेवं साम्राज्ये विजयिनि वितृष्णेन मनसा यशोयोगीशानां पिबसि नृप तत्कस्य सदृशम् ।।