SearchBrowseAboutContactDonate
Page Preview
Page 123
Loading...
Download File
Download File
Page Text
________________ । पाद. ३. सू. १३२-१३७] श्रीसिद्धहेमचन्द्रशब्दानुशासने पष्ठोध्यायः [९७ पाण्डुकम्बलादिन् ॥ ६. २. १३२ ॥ पाण्डुकम्बलशब्दात्तृतीयान्ताच्छन्ने रथे वाच्ये इन् प्रत्ययो भवति, अणोऽपवादः । पाण्डुकम्बलेन छन्नः पाण्डुकम्बली रथः ।१३२। दृष्टे साम्नि नाम्नि ॥ ६. २. १३३ ॥ ___ दृष्ट इति प्रत्ययार्थस्तस्य साम्नीति विशेषणम् । तेनेति तृतीयान्तात् दृष्टं सामेत्यस्मिन् अर्थे यथाविहितं प्रत्ययो भवति नाम्नि प्रत्ययान्तं चेत्साम्नो नाम भवति । क्रुञ्चेन दृष्टं साम क्रोश्चम, मृगीयुणा मार्गीयवम्, एवं मायूरम् । तैत्तिरम्, वासिष्ठम्, वैश्वामित्रम्, कालेयम्, आग्नेयम्, एवं नामानि सामानि ॥१३३॥ न्या० स० दृष्टे०-कुञ्चेनेति नडादिगणपाठात् कुञ्चाशब्दस्य हस्वः । गोत्रादकवत् ॥ ६. २. १३४॥ ___गोत्रवाचिनस्तृतीयान्तात् दृष्टं सामेत्यस्मिन्नर्थे अङ्कवत् प्रत्ययो भवति । यथा तस्यायमङ्क इत्यत्रेदमर्थे प्रत्ययो भवति तथा दृष्टं सामेत्येतस्निन्नर्थेऽपि । औपगवेन दृष्टं साम औपगवकम्, कापट वकम्, वाहतवकम् । अङ्क इति विशेषोपादानेऽपि तस्येमित्यर्थमात्रं परिगृह्यते ।१३४। वामदेवाद्यः ॥ ६. २. १३५॥ वामदेवशब्दात्तृतीयान्तात् दृष्ट सामनि यः प्रत्ययो भवति । वामदेवेन दृष्टं साम वामदेव्यम् ।१३५॥ डिवाण ॥ ६. २. १३६ ॥ दृष्टं सामेत्यस्मिन्नर्थे योऽण् प्रत्ययो विहितः स डिद्वा भवति । उशनसा दृष्टं साम औशनम्, औशनसम् ।१३६। वा जाते दिः ॥ ६. २. १३७ ॥ ___ जात इत्यस्मिन्नर्थे योऽण् प्रत्ययो द्विविहित उत्सर्गेण प्राप्तोऽपवादेन बाधितः सन् पुनविहितः स डिद्वा भवति । शतभिषजि जातः शातभिष: शातभिषजः । द्विरिति किम् ? हिमवति जातो हैमवतः, केचित्तु द्विडित्त्वमिच्छन्ति, तन्मते द्विडित्त्वात् द्विरन्त्यस्वरादिलोपे शातभ इत्यपि भवति, एवं पूर्वसूत्रेऽपि । औशं साम, एवं च योगद्वयेऽपि त्रैरूप्यं सिद्धम् ।१३७॥ न्या० स० वा जा०-शातभिष इति शतं भिषजोऽस्याः शतभिषजा चन्द्रयुक्तया युक्तः
SR No.034257
Book TitleSiddh Hemhandranushasanam Part 03
Original Sutra AuthorHemchandracharya
AuthorUdaysuri, Vajrasenvijay, Ratnasenvijay
PublisherBherulal Kanaiyalal Religious Trust
Publication Year1986
Total Pages570
LanguageSanskrit, Gujarati
ClassificationBook_Devnagari & Book_Gujarati
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy