________________
[पाद. २. सू. १०७-११• ] श्रीसिद्धहेमचन्द्रशब्दानुशासने षष्ठोध्यायः [ ८९ कसोमात् ट्यण् ॥ ६. २. १०७ ॥
कशब्दात्सोमशब्दाच्च सास्य देवतेत्यस्मिन् विषये टयण प्रत्ययो भवति, अणोऽपवादः । टकारो ड्यर्थः । कः प्रजापतिर्देवतास्य कायं हविः, कायी इष्टिः, कशब्दं प्रति णित्त्वस्य वैयदिालोपो न भवति । सोमो देवतास्य सौम्यं हविः, सौम्य सूक्तम्, सौमी ऋक् ।१०७।
न्या० स० कसोमायण-अथ कायमित्यत्र लोपात्स्वरादेशः इति न्यायेन लोपात्पूर्व वृद्धौ कृतायां पश्चादाकारलोपः कस्मान्न भवति ? इत्याह-कशब्द प्रतीति अकारस्याकारस्य वा लोपे विशेषाभावात् , यद्वा सकृद्गते स्पर्द्ध यद्बाधितं तद्बाधितमेवेत्युपतिष्ठते । द्यावापृथिवीशुनासीरामीषोममरुत्वदास्तोष्पतिगृहमेधादीययो
॥ ६. २. १०८ ॥ · एभ्यः सास्य देवतेत्यस्मिन् विषये ईंय य इत्येतो प्रत्ययो भवतः, अणो व्यस्य चापवादः। द्यौश्च पृथिवी च द्यावापृथिव्यौ ते देवते मस्य घावापृथिवीयम् हविः द्यावापृथिव्यम्, शुनश्च वायुः सीरश्चादित्यः शुनासीरौ तो देवता अस्य शुनासीरीयम् शुनासीयम् । अग्निश्च सोमश्च अग्नीषामौ तौ देवता अस्य अग्नीषोमीयम्, अग्नीषोम्यम्, मरुत्वान् देवतास्य मरुत्वतीयम्, मरुत्वत्यम्, वास्तोष्पतिर्देवतास्येति वास्तोष्पतीयम् वास्तोष्पत्यम्, गृहमेधो देवतास्य गृहमेधीयम् गृहमेध्यम् ।१०८। वावृतुपित्रुषसो यः ॥ ६. २. १०९ ॥
वायु ऋतु पितृ उषस् इत्येतेभ्यः सास्य देवतेत्यस्मिन् विषये यः प्रत्ययो भवति, अणोऽपवादः । वायुर्देवतास्य वायव्यम् । एवम् ऋतव्यम्, पित्र्यम्, उषस्यम् ।१०९। __न्या० स० वातपित्रु०-उषस्यमिति संध्यावाचकः स्त्रीक्लीषः प्रभातवाचकस्तु नपुंसकलिङ्गः, उषा देवताऽस्येति विग्रहः। महाराजप्रोष्ठपदादिकण् ॥ ६. २. ११०॥
महाराज प्रोष्ठपद इत्येताभ्यां सास्य देवतेत्यस्मिन् विषये इकण् प्रत्ययो भवति । अणोऽपवादः । महाराजो देवतास्य माहाराजिकः। माहाराजिकी, प्रौष्ठपदिकः, प्रौष्ठपदिकी ।११०।
न्या० स० महाराज०-पौष्ठपदिक इति पौष्ठो गौस्तस्येव पादावस्य 'सुप्रातसुश्व' ७-३-१२९ इति डे निपातः प्रौष्ठपदः पुरुषः नामग्रहणेऽपि बीलिङगोऽपि नक्षत्रवाची