________________
९० ]
बृहवृत्ति-लघुन्याससंवलिते [ पाद. २ सू. १११-११४ ] प्रोष्ठपदाशब्दो ग्राह्यः, यदा प्रोष्ठपदासु जातः 'जाते' ६-३-९८ इत्यः तदा ‘प्रोष्ठभद्राजाते' ७-४-१३ इत्युत्तरपदवृद्धौ प्रोष्ठपाद इति स्यात् , बहुलग्रहणाबहुलमन्येभ्य इति जाता यस्याणो न लुप् , बहुलग्रहणस्य लक्ष्यानुसारार्थत्वे व्याख्यातत्वात् । कालाद्भववत् ॥ ६. २. १११ ॥
कालविशेषवाचिभ्यो नामभ्यो यथा भवेऽर्थे प्रत्यया वक्ष्यन्ते तथा सास्य देवतेत्यस्मिन् विषये भवन्ति । वत्सर्वसादृश्यार्थः, तेन यकाभ्यः प्रकृतिभ्यो येन विशेषणेन ये प्रत्यया भवेऽर्थे भवन्ति ताभ्य एव प्रकृतिभ्यस्तेनैव विशेषणेन त एव प्रत्यया इह भवन्ति । यथा मासे भवं मासिकम्, सांवत्सरिकम्, हैमनम्, वासन्तम्, प्रावृषेण्यम् तथा मासो देवतास्य मासिकम्, सांवत्सरिकम्, हैमनम्, वासन्तम्, प्रावृषेण्यम् ।१११। आदेश्छन्दसः प्रगाथे ॥ ६. २. ११२ ॥
सेति प्रकृतिरस्येति प्रत्ययार्थश्चानुवर्तते । तयोर्यथाक्रमं विशेषणे आदेश्छन्दस इति प्रगाथे इति च, सेति प्रथमान्तादादिभूतात् . छन्दसोऽस्येति षष्ठयर्थे प्रगाथेऽभिधेये यथाविहितं प्रत्ययो भवति । यत्र द्व ऋचौ प्रग्रन्थनेन प्रकर्षगानेन वा तिस्रः क्रियन्ते स मन्त्रविशेषः प्रगाथः। पङ्क्तिरादिर्यस्य प्रगाथस्य स पाङ्क्तः प्रगाथः, एवमानुष्टुभः, जागतः आदेरिति किम् ? अनुष्टुब्, मध्यमस्य प्रगाथस्य । छन्दस इति किम् । उदित्ययं शब्द आदिरस्य प्रगाथस्य । प्रगाथ इति किम् ? पङ्क्तिरादिरस्य अनुवाकस्य ।११२॥
न्या० स० आदेश्छन्दसः प्रगाथे इति प्रगथ्यते घञ्, अत एव निर्देशात् रनकारयोर्लोपः प्रगीयते वा कमिघुगार्तिभ्यस्थः, प्रपन्थनेन प्रकृष्टरचनाविशेषेण ।
प्रकर्षगानेन उच्चारविशेषेणेत्यर्थः । भनुवाकस्येति अनुवाकः पाठविशेषः तस्य । योद्धप्रयोजनाद्युद्धे ॥ ६. २. ११३ ॥ ___ सेति प्रथमान्तात् योद्धवाचिनः प्रयोजनवाचिनश्चास्येति षष्ठपर्थे युद्धेऽभिधेये यथाविहितं प्रत्ययो भवति । विद्याधरा योद्धारः अस्य युद्धस्य वैद्याधरं युद्धम्, भारतं युद्धम्, प्रयोजनं प्रवृत्तिसाध्यं फलम् । सुभद्रा प्रयोजनमस्य युद्धस्य सौभद्रं युद्धम्, सौतारं युद्धम्, अत्र सुभद्रादिशब्दस्तत्प्राप्तौ वर्तत इति प्रयोजनम् । योद्धृप्रयोजनादिति किम् ? मासोऽस्य युद्धस्य । युद्ध इति किम् ? सुभद्रा प्रयोजनमस्य वैरस्य ।११३। भावघञोऽस्यां णः ॥ ६. २. ११४ ॥
सेति प्रकृतिविशेषणमनुवर्तते। भावे यो घन् तदन्तात् प्रथमान्ताद