________________
८८ ]
बृहवृत्ति-लघुन्याससंवलिते [पाद. २. सू. १०२-१०६ ] जैनः, आग्नेयो ब्रह्मणः, ऐन्दं हविः, ऐन्द्रः पुरोडाशः, वारुणश्वरुः, आदित्यः, बार्हस्पत्या, मव्यम्, द्वीन्द्रम् ।१०१॥
पैङ्गाक्षीपुत्रादेरीयः ॥ ६. २. १०२ ॥ __ पैङ्गाक्षीपुत्र इत्येवमादिभ्य ईय: प्रत्ययो भवति सास्य देवतेत्यस्मिन विषये, अणोऽपवादः । पैङ्गाक्षीपुत्रो देवतास्य पैङ्गाक्षीपुत्रीयं हविः, तार्णाबिन्दवो देवतास्य तार्णबिन्दवीयं हविः एवं पैङ्गोपुत्रीयम्, पैङ्गाक्षीपुत्रादयः प्रयोगगम्याः ।१०२।
न्या० स० पैङ्गाक्षीपुत्रादेः पिङ्गे अक्षिणी यस्य ‘सक्थ्यक्ष्णः स्वाङ्गे' ७-३-१२६ (इति) टः, पिङ्गाक्षस्यापत्यं वृद्धं स्त्री, 'अत इञ्। ६-१-३१ 'अनार्षे वृद्धे । २-४-७८ इति ष्यः, आप् पिङ्गाक्षायाः पुत्रः 'ष्या पुत्रंपत्योरीच्' २-४-८३, अनन्तरापत्ये वा इञ् , तदा 'नुर्जातेङीः' २-४-७२ पिङ्गाक्ष्याः पुत्रः । शुक्रादियः ॥ ६. २. १०३ ॥
शुक्रशब्दादियः प्रत्ययो भवति सास्य देवतेत्यस्मिन् विषये । शुक्रियं हविः, शुक्रियोऽध्यायः ॥१०३। शतरुद्रात्तौ ।। ६. २. १०४ ।।
शतरुद्रशब्दात्तौ ईय इय इत्येतो प्रत्ययो भवत: सास्य देवतेत्यस्मिन विषये । शतसंख्या रुद्राः शतरुद्राः, ते देवता अस्य शतरुद्रीयं शतरुद्रियम् । शतं रुद्रा देवतास्येति द्विगावपि विधानसामर्थ्यात् लुब् न भवति ।१०४। अपोनपादपान्नपातस्त चातः ॥ ६. २. १०५ ॥
अपोनपादपान्नपात् इत्येताभ्यां तौ प्रत्ययो भवतः सास्य देवतेत्यस्मिन् विषये तत्सनियोगे चानयोराच्छब्दस्य तृ इत्ययमादेशो भवति । अपोनपात देवतास्य अपोनप्त्रोयम् अपोनप्त्रियम् अपांनप्त्रीयम् अपान्नप्त्रियम् ।१०५॥
न्या० स० अपोनपाद-अपोनप्त्रीयमिति न पातीति शतृः नखादित्वाददभावः, ततोऽपः कर्मतापन्ना नपात, अत एव निर्देशादलुप, यद्वाऽपकृष्टमूनमपोनं तत्पातयति क्विप् अपकृष्टमन्नपान्नं तत्पातयति क्विप् । महेन्द्रादा ॥ ६. २. १०६ ॥
महेन्द्रशब्दात्सास्य देवतेत्यस्मिन् विषये तो प्रत्ययौ वा भवतः । महेन्द्रीयम्, महेन्द्रियम्, पक्षे अण-माहेन्द्रं हविः ॥१०६।