________________
[पाद. २. सू. ९९-१०१] श्रीसिद्धहेमचन्द्रशब्दानुशासने षष्ठोऽध्यायः [८७ मासार्धमासयोरेव संवत्सरपर्वणोः प्रत्ययः, संवत्सरेऽप्यन्ये । अस्येत्यवयवावयविसंबन्धे षष्ठी, पौषी पौर्णमासी अस्य पौषो मासः, पौषोऽर्धमासः, एवं राघः वैशाखः आषाढ इति । नाम्नीत्येव ? पौषो पौर्णमासी अस्य पश्चरात्रस्य दशरात्रस्य भृतकमासस्य वेति वाक्यमेव, पौर्णमासीति पूर्णो माश्चन्द्रोऽस्यामस्तीति 'पूर्णमासोऽण' (७-२-५५) इत्यण् । पूर्णमास इयमिति वा 'तस्येदम् (६-३-१५९) इत्यण् । पूर्णो मा मासो वास्यां पूर्णमासा वा युक्तेति अत एव निपातनादण् ।९८॥
न्या० स० सास्य पौर्णमासी-तेनेत्यादि मासः त्रिंशदात्ररूपः, मासस्यामिर्धमासः पञ्चदशरात्ररूपः, अत्रैव प्रत्ययो भवति, नान्यत्र पञ्चपत्रादौ मासार्धमासावप्यनेकरूपत्वादित्याह___ संवत्सरपर्वणोरिति संवत्सरस्य वर्षस्य पर्वभूतो मासः सूर्याचन्द्रमसोः संश्लिष्य पुनः संश्लिष्टयोर्विश्लिष्य पुनर्विश्लिष्टयोर्वा यौ तौ संश्लेषौ विश्लेषौ वा तयोरन्तरालकालः, अर्धमासश्च संश्लेषविश्लेषयोरन्तरमतो भृतकमासादेन भवति, संवत्सरपर्वाभावात् । आग्रहायण्यश्वत्थादिकण् ॥ ६. २. ९९ ॥
आग्रहायणी अश्वत्था इत्येताभ्यां सेति प्रथमान्ताभ्यामस्येति षष्ठयर्थे इकण् प्रत्ययो भवति यत्तत्प्रथमान्तं तच्चेत्पौर्णमासी भवति नाम्नि प्रत्ययान्तं चेत् नाम स्यात् । आग्रहायणी पौर्णमासी अस्य आग्रहायणिको मासोर्धमासो वा, अश्वत्था पौर्णमासी अस्य आश्वत्थिको मासोऽर्धमासो वा, आग्रहायणी मार्गशीर्षी, अश्वत्था आश्वयुजी, अन्ये तु अश्वत्थशब्दमप्रत्ययान्तं पौर्णमास्यामपि पुलिङ्गमिच्छन्ति, अश्वत्थः पौर्णमासी ।९९।
न्या० स० आग्रहायण्य-आग्रहायणीति अग्रं हायनस्य 'द्वित्रिचतुष्परण' ३-१-५६ इति सः, 'प्रथमोक्तम्' ३-१-१४८ इति अग्रस्य पूर्वनिपातः, 'पूर्ष पदस्था' २-३-६४ इति णत्वं, अग्रहायण एव प्रज्ञादिभ्योऽण् कीः । चैत्रीकार्तिकीफाल्गुनीश्रवणादा ॥ ६. २. १००॥
एभ्य इकण् प्रत्ययो भवति वा सास्य पौर्णमासीति अस्मिन् विषये नाम्नि । चैत्री पौर्णमासी अस्य चैत्रिकः चैत्रो वा मासोऽर्धमासो वा, एवं कार्तिक्याः कातिकिकः, कार्तिकः, फाल्गुन्याः फाल्मुनिकः, फाल्गुनः, श्रवणायाः श्रावणिकः श्रावणः ॥१०॥ देवता ।। ६. २. १०१ ॥
सास्येत्यनुवर्तते । सेति प्रथमान्तादस्येति षष्ठ्यर्थे यथाविहितं प्रत्ययो भवति यत्तत्प्रथमान्तं देवता चेत्सा भवति । अर्हन् देवता अस्य आर्हतः,