________________
८६ ]
बृहद्वृत्ति-लघुन्याससंवलिते [पाद- २ सू० ९४-९८ ] ऋश्यादेः कः ॥ ६. २. ९४ ॥
ऋश्य इत्यादिभ्यश्चातुर्थिकः कप्रत्ययो भवति देशे नाम्नि । ऋश्यकः, न्यग्रोधकः, ऋश्य, न्यग्रोध, शर, निलीन, निवात, विनद्ध, सित, शित, नद्ध, निनद्ध, परिगूढ, उपगूढ, उत्तर, अश्मन्, उत्तराश्मन्, स्थूल, बाहु, स्थूलबाहु, ख दिर, अरदु, अनडुह, परिवंश, खण्डु, वीरण, कर्दम, शर्करा, निबन्ध, अशनि, खण्ड, दण्ड, वेणु, परिवृत, वेश्मन्, अंशु इति ऋश्यादिः ।९४। वराहादेः कण् ॥ ६. २. ९५॥
वराहादिभ्यश्चातुरर्थिकः कण् प्रत्ययो भवति देशे नाम्नि । वाराहकः, पालाशकः, वराह, पलाश, विनद्ध, निबद्ध, स्थूल, बाहु, स्थूलबाहु, खदिर, विदग्ध, विजग्ध, विभग्न, विभक्त, पिनद्ध, निमग्न इति वराहादिः ।९५॥ कुमुदादेरिकः ॥ ६. २. ९६ ॥
कुमुद इत्येवमादिभ्यश्चातुरर्थिक इकः प्रत्ययो भवति देशे नाम्नि । कुमुदिकम्, इक्कटिकम्, बल्वजिकम् । केचिदमु न पठन्ति । बाल्वजः कुमुद, इक्कट, निर्यास, कङ्कट, संकट, गर्त, परिवाप, यवाप, कूप, विकङ्कत, बल्वज, अश्वत्थ, न्यग्रोध, बोज, दशा, शाल्मलि मुनि, स्थल, ग्राम इति कुमुदादिः ।९६। अश्वत्थादेरिकण ॥ ६. २. ९७ ॥
अश्वत्थ इत्यादिभ्यश्चातुरथिक इकण् प्रत्ययो भवति देशे नाम्नि । आश्वस्थिकम्, कौमुदिकम् । अश्वत्थ, कुमुद, गोमठ, रथकार, दाश, ग्राम, घास, कुन्द, शाल्मलि, मुनि, स्थल, मुनिस्थल, कुट, मुचुकर्ण, मुचुकूर्णि, कुण्डल, शुचिकर्ण इत्यश्वत्थादिः । इति करणाद्यथादर्शनं प्रत्ययव्यवस्थायामर्थप्रकृत्युपादानं प्रपञ्चार्थम् ।९७।
न्या० स० अश्वत्थादेरिकण इतिकरणादिति पूर्वैः प्रत्यया एव विहिता, न प्रकृतीनामुपादानं कृतमितीतिकरणस्य विवक्षार्थत्वाल्लौकिक-प्रत्ययानुसारेणार्थप्रकृतयोऽनुमीयन्त इति, अत एव च प्रत्युपादानेऽपि कैश्चिद्धीनाः कैश्चिदधिकाः पठिता इति न मतिव्यामोहो विधेयः यथादर्शनं तु प्रयोगव्यवस्था, अतः एव बाल्वजिकं बाल्वजमित्याधुपदर्शितम् । . सास्य पौर्णमासी ॥ ६. २. ९८ ॥
इति शब्दो नाम्नीति चानुवर्तते । देश इति निवृत्तम् । सेति प्रथमान्तादस्येति षष्ठ्यर्थे यथाविहितं प्रत्ययो भवति यत्तत्प्रथमान्तं तच्चेत्पौर्णमासी भवति नाम्नि, प्रत्ययान्तं चेन्नाम स्यात्, इतिकरणो विवक्षार्थः । तेन