________________
७८ ]
बृहवृत्ति-लघुन्याससंवलिते [पाद. २ सू. ६६-६८ ] वाङ्गमित्यादि । उत्तरत्र निवास इत्यभिधानात् ईशितव्ये राष्ट्रेऽयं विधि:, उभयथा हि राष्ट्रसंबन्धो भवति ।६५। ।
न्या० स० राष्ट्र-शैबमिति शिबे राज्ञोऽपत्यानि 'दुनादि' ६-१-११८ इतिच्यः, 'बहुष्वस्त्रियां ६-१-१२४ इति लुप् , ततो राष्ट्रे वाच्येऽनेनाण् , एतद्विषये 'न प्रागजितीये' ६-१-१३५ इति न्यस्य स्थानित्वं न कुतः एक न प्राजितीय इत्यत्र वृत्तौ गोत्र इति पदं द्विधा व्याख्याय गोत्रे उत्पन्नस्य 'यस्कादेर्गोत्रे' ६-१-१२५ इत्यारम्य यः प्रत्ययलोपः प्राप्नोति तस्य 'न प्रागजितीये' ६-१-१३५ इत्यनेन लुपं प्रतिषेधन्ति, ज्यो हि 'यस्कादे गोत्रे' ६-१-१२५ इत्यत्र प्रागविहित एवेति स्थानित्वं न, यदा तु शिबीनां राजाम इत क्रियते तदागोत्रत्वात्, 'न प्राजितीये' ६-१-१३५ इत्यस्य प्राप्तिरेव नास्ति, एवमुत्तरेष्वपि ।
उत्तरत्रेति 'निवासादूरभवे' ६-२-६९ इत्यत्र । ईशितव्ये इति-यथेच्छं विनियोज्ये । उभयथा हीति परिपालनेन निवासेन च । राजन्यादिभ्योऽकञ् ॥ ६. २. ६६ ॥
राजन्य इत्येवमादिभ्यो राष्ट्रे वाच्येऽक ञ् प्रत्ययो भवति, अणोऽपवादः। राजन्यानां राष्ट्र राजन्यकम्, दैवयातवकम्, राजन्य, दैवयातव, देवयात आवृत, आव्रीतक, वात्रव, शालङ्कायन, बाभ्रव्य, जालन्धरायण, जानंधरायण, कौन्ताल, आत्मकामेय, अम्बरीपुत्र, आम्बरीपुत्र, अम्बरीषपुत्र, बैल्ववन, . शैलूषज, उदुम्बर, औदुम्बर, तैतल, संप्रिय, दाक्षि, ऊर्णनाभ, ऊर्णनाभि, आर्जुनायन, विराट, मालव, त्रिगर्त इति राजन्यादिः । बहुवचनमाकृतिगणार्थम् ।६६। वसातेर्वा ॥ ६. २. ६७ ॥
वसातिशब्दाद्राष्ट्रे वाच्येऽकञ् प्रत्ययो वा भवति । वसातीनां राष्ट्र वासातक, वासातम् ।६७।
भौरिक्यैषुकार्यादेविधभक्तम् ॥ ६. २. ६८ ॥ __ भौरिकि इत्येवमादिभ्य ऐषुकारि इत्येवमादिभ्यश्च राष्ट्र वाच्ये यथासंख्यं विध भक्त इत्येतौ प्रत्ययो भवतः, अणोऽपवादः । भौरिकीणां राष्ट्र भौरिकिविधम्, भौलि कि विधम्, स्वभावान्नपुसकता। ऐषुकारीणां राष्ट मैषुकारिभक्तम्, सारसायनभक्तम् । भौरिकि, भौलिक, चौपयत, चौदयत, चटयत, चैकयत, सैकयत, क्षतयत, काणेय, वालिकाध, वाणिजक इति भौरिक्यादिः । ऐषुकारि, सारसायन, चान्द्रायण, ताायण, याक्षायण, व्याक्षायण, ब्यक्षायण, ध्यक्षायण, औलायन, सौवीर, दासमित्रि, दासमित्रायण, शौद्रकायण, शयण्ड,