SearchBrowseAboutContactDonate
Page Preview
Page 103
Loading...
Download File
Download File
Page Text
________________ [ पाद. २. सू. ६२-६५ ] श्रीसिद्धहेमचन्द्रशब्दानुशासने षष्ठोध्यायः [७७ किम् ? द्रौवयं खण्डम, गौमयं भस्म, कापित्थो रसः। कथं कपोतस्य मांसं कापोतम् तस्य विकारः कापोतो रसः पलाशस्यावयवः पालाशी शाखा तस्या अवयवः पालाशी समित् इति ? विकारेऽपि प्रकृतिशब्दो वर्तते, यथा मुद्ः शालीन भुङ्क्ते । मुद्रविकारैः शालिविकारानिति गम्यते, गोभिः सन्नद्धो वहति । गोविकारैश्चर्मभिरिति गम्यते । अवयवेऽप्यवयविशब्दो वर्तते । पूर्वे पञ्चालाः उत्तरे पश्चाला: ग्रामो दग्धः पटो दग्ध इति । तत्र विकारवृत्तेः प्रकृतिशब्दादवयववृत्तेरवयविशब्दाच्च प्रत्ययो भविष्यति । विकारविकारोऽपि वा विकार एव अवयवावयवोऽप्यवयव इति १६१॥ न्या० स० न द्वि-अवयवेऽपीति कापोतं प्रति उत्तरं दत्त्वा पालाशी प्रत्याह विकार एवेति प्रकृतेरपीत्यर्थः । पितृमातुर्यडुलं भ्रातरि ।। ६. २. ६२॥ - पितृमातृशब्दाभ्यां षष्ठचन्ताभ्यां भ्रातरि वाच्ये यथासंख्यं व्यडुल इत्येतो प्रत्ययौ भवतः । पितुर्धाता पितृव्यः मातुर्धाता मातुलः, डकारोऽन्त्यस्वरादिलोपार्थः । ६२। न्या. स० पितृ-विकल्पादेकशेषः सूत्रत्वाद्वा ‘आ द्वंद्वे' ३-२-३९ इति च न । पित्रो महट् ॥ ६. २. ६३॥ पितृमातृशब्दाभ्यां षष्ठयन्ताभ्यां मातापित्रोर्वाच्ययो महट् प्रत्ययो भवति । पितुः पिता पितामहः, पितुर्माता पितामही, मातुः पिता मातामहः, मातुर्माता मातामही । द्विवचनटित्त्वाभ्यां मातापित्रोरिति विज्ञायते । डकारोऽन्त्यस्वरादिलोपार्थः, टकारो इयर्थः ।६३। अवेर्दुग्धे सोढदूसमरीसम् ॥ ६. २. ६४ ॥ अविशब्दात् षष्ठयन्तात् दुग्धेऽर्थे सोड दूस मरीस इत्येते प्रत्यया भवन्ति । अवेर्दुग्धम् अविसोढम्, अविदूसम्, अविमरीसम् ।६४। राष्ट्रेऽनङ्गादिभ्यः ॥ ६. २. ६५॥ राष्ट्र जनपदः, षष्ठपन्तादङ्गादिवजितान्नाम्नो राष्ट्रेऽभिधेये यथाविहितमण् प्रत्ययो भवति । शिबीनां राष्ट्रं शैबम् । उषुष्टानामौषुष्टम् । गान्धारीणां गान्धारम् । अनङ्गादिभ्य इति किम् । अङ्गानां राष्ट्रं वङ्गानां राष्ट्रमिति वाक्यमेव भवति । अङ्ग वङ्ग. सुह्म पुण्ड इति । अङ्गादयः प्रयोगगम्याः । केचित्तु अगादिप्रतिषेधं नेच्छन्ति । अङ्गानां राष्ट्रमाङ्गम् ।
SR No.034257
Book TitleSiddh Hemhandranushasanam Part 03
Original Sutra AuthorHemchandracharya
AuthorUdaysuri, Vajrasenvijay, Ratnasenvijay
PublisherBherulal Kanaiyalal Religious Trust
Publication Year1986
Total Pages570
LanguageSanskrit, Gujarati
ClassificationBook_Devnagari & Book_Gujarati
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy