________________
पाद. २ सू. ६९-७० ] श्रीसिद्धहेमचन्द्राशब्दानुशासने षष्ठोध्यायः [७९ शाण्ड, शायाण्ड, शायण्डायन, खादायन, गौ (मा)लुकायन, विश्व, वैश्व, धेनव, वैश्वमाणव, वैश्वदेव, तुण्ड, देव, तुण्डदेव, शायाण्डी, शायण्डी, वायौविद इत्यैषुकार्यादिः ।६८॥ निवासादूरभवे इति देशे नाग्नि ॥ ६. २. ६९ ।।
षष्ठयन्तान्नानो निवास अदूरभव इत्येतयोरर्थयोर्यथाविहितं प्रत्ययो भवति देशे नाम्नि प्रत्ययान्तं चेद्देशस्य नामधेयं भवति, इतिकरणो विवक्षार्थः । तेनानवृत्त व्यवहारमनुपतिते नाम्नि विज्ञेयम् न संगीते । निवसन्त्यस्मिन् इति निवासः । तत्र, ऋजुनाव, ऋजुनावानां वा निवास आज नावः, शिबीनां शैबः, उषुष्टस्य औषुष्टः, शकलायाः शाकल:, अदूरभवे, विदिशाया अदूरभवं वैदिशं नगरम्, वैदिशो जनपदः, वरणास्योः वारणसी, वोहिमत्या हिमतम्, यवमत्या यावमतम्, ' इह केचिदङ्गानां निवासः अङ्गाः, वङ्गाः, कलिङ्गाः, सुह्माः, मगधाः, पुण्ड्राः, कुरवः । पञ्चालाः। मत्स्याः । वरणानामदूरभवं बरणा नगरम् । शृङ्गशाल्मलीनां शृङ्गशाल्मलयो ग्रामः। गोदयोर्हदयोर्गोदौ ग्रामः । आलन्यायनपर्णानामालन्यायनपर्णा ग्रामः। शफण्डयाः शफण्डी । जालपदाया जालपदा, मथुरायाः मथुरा, उज्जयन्याः उज्जयनो, गयानां गया, उरशायाः उरशा, तक्षशिलाया: तक्षशिला, कटुक बदर्याः कटुकबदरी, खलतिकस्य खलतिकं वनानीत्यादिषु प्रत्ययमुत्पाद्य लुपमारभन्ते । सत्यां च लुपि प्रकृतिवाल्लिङ्गवचने च मन्यन्ते' । तदयुक्तम् । अत्र हि प्रकृतिमात्रमेव देशनाम न प्रत्ययान्तम् प्रत्ययान्तस्य च देशनामत्वे प्रत्ययो विधीयते इति न भवति, तस्य निवास इत्यादिविवक्षायां तु वाक्यमेव । प्रत्ययाभावाच्च लुबपि न वक्तव्या । अङ्गवरणादीनां च क्षत्रियवृक्षादिवज्जनपदनगरादौ स्वत एव वत्तिर्न प्रत्यययोगात् लिङ्गसख्योपादानं च स्वगतमेवेति ।६९। ___ न्या० स० निवासा-इतिकरण इति क्रियतेऽनेनार्थप्रतीतिरिति करणः शब्दः । ऋजुनाष इति ऋच्यो नावो यस्य, एकत्वे तु 'पुमनडुन्नौ' ७-३-१७३ इति कच् स्यात् । ऋजुनावानामिति ऋजु आर्जवयुक्तं नुवन्ति 'कर्मणाऽण' ५-१-७२ ।
___ वरणास्योरिति वरणा चासिश्च वरणासी, तयोरदूरभवा पृषोदरादित्वाद् वस्य दी? णस्य तु हस्वः। प्रकृतिमात्रमेवेति केवलैव प्रकृतिः प्रत्ययमन्तरेण देशनाम इत्यर्थः । अङ्गवरणादीनां चेति स्वमतमेव द्रढयन्नाह। तदत्रास्ति ॥ ६. २. ७० ॥
तदिति प्रथमान्तादत्रेति सप्तम्यर्थे यथाविहितं प्रत्ययो भवति