________________
८०]
बृहद्वृत्ति-लघुन्याससंवलिते
[पाद-१, सूत्र-१४-१७
एते शब्दा अचि कृतद्विवचना वा निपात्यन्ते । चरिचलिपतिवदिहन्तीनामजन्तानां द्वित्वं हन्तेहस्य घत्वं पूर्वस्य च दीर्घः । चरतीति चराचरः, चलाचलः, पतापतः, वदावदः, घनाघनः । पाटयतेरजन्तस्य द्वित्वम् ह्रस्वत्वं पूर्वस्य च ऊदन्तो निपात्यते-पाटयतीति पाटूपटः । पक्षे, चरः, चल:, पतः, वदः, हनः, पाटः । केचित्तु पटूपट इति निपातयन्ति ।।१३॥
न्या० स०-चराचरघनाघन इति-प्रथमस्य निपातनात् घत्वं द्वितीयस्य तु 'अङ हिहन' ४-१-३४ इति सिद्धमेव ।
चिक्लिद-चक्नसम् ॥ ४. १. १४॥
चिक्लिदचक्नसशब्दौ निपात्येते। क्लिद्यतेः के क्नस्यतेरचि उभयत्र घबर्थे वा के द्वित्वं निपात्यते । चिक्लिदः, चक्नसः । चक्रुः ययुः बभ्र : इत्यौणादिकाः ।। १४ ।।
न्या० स० चिक्लिद०-क्लिदौच क्लिद्यतीति 'नाम्युपान्त्य' ५-१-५४ इति क: क्नस्यतीत्यऽच् क्लेदनं क्लसनं वा स्थादित्वात्के । चक्रुः वैकुण्ठः कर्मठश्च, ययुः अश्वः यायावरः स्वर्गमार्गश्च, बभ्रुः ऋषि: नकुलः राजा वर्णश्च, 'हनिया' ७३३ ( उणादि ) इति त्रयोऽपि साधवः ।
दाश्वत् साहृत् मीढ्वत् ॥ ४. १. १५ ॥
एते शब्दाः क्वसुप्रत्ययान्ता निपात्यन्ते । दाग दाने इत्यस्य क्वसावद्वित्वमनिट्त्वं च निपात्पते । दाश्वान् , दाश्वांसो, दाशुषी । बहि मर्षणे इत्यस्य परस्मैपदमद्वित्वमुपान्त्यदीर्घत्वमनिटत्वं च निपात्यते । साह्वान् , 'मिह सेचने' इत्यस्याद्वित्वमनिटत्वमुपान्त्यदीर्घत्वं ढत्वं च निपात्यते, मीढ्वान् ।। १५ ।।
न्या० स०-दाश्वत्साह्वत्-'षहण मर्षणे' इत्यस्य न निपातनमिष्टिवशात् । ज्ञप्यापो ज्ञीपीप न च द्विः सि सनि ॥ ४. १. १६ ॥
ज्ञपेरापेश्च सकारादौ सनि परे यथासंख्यं जीपीप् इत्येतावादेशौ भवतो न चानयोरेकस्वरोंऽशो द्विर्भवति । प्रादेशे कृते द्वित्वं प्राप्नोतीति निषिध्यते । आवेशसंनियोगे च निषेधात् अन्यत्र द्वित्वं भवत्येव । जीप्सति, ईप्सति । सीति किम् ? जिज्ञपयिषति । 'इवृध'( ४-४-४७ ) इत्यादिना विकल्पेट् । सनीति किम् । आप्स्यति ॥१६॥
न्या० स०-ज्ञप्यापो०-आदेशे कृते इति-परत्वात् प्रथममेवेत्यर्थः । जीप्सतीति-ज्ञांश , जानन्तं प्रयुङ क्त णिग् , 'अत्तिरी' ४-२-२१ इति पोऽन्तः, 'मारणतोषण' ४-१-३० इति ह्रस्वत्वं, ज्ञपयितुमिच्छति 'तुमर्हात्' ३.४-२१ इति सन् । ईप्सतीति-आप्Mण लम्भने इत्यस्य णिजभावेऽपि नित्यमिटि सादिस्सन् नास्ति ।
ऋध ईत् ॥ १. १. १७॥