________________
पाद-१, सूत्र १०-२१ ]
श्रीसिद्धहेमचन्द्रशब्दानुशासने चतुर्थोऽध्यायः
[३१
ऋधः सकारादौ सनि परे ईत् इत्यादेशो भवति न चास्य द्विः । ईसति । सीत्येव ? अदिधिषति ।। १७ ।।
न्या० स०-ऋध ईत्-ईसंतीति-'इवृध' ४-४-४७ इति वेट् । दम्भो धिप धीप् ॥ ४. १. १८ ॥
दम्भेः सकारादौ सनि परे धिप् धीप् इत्येतावादेशौ भवतो न चास्य द्विः । धिप्सति, धीप्सति । सीत्येव,-दिदम्भिषति ।। १८॥
श्रव्याप्यस्य मुचेमोग्वा ।। ४. १. ११ ॥ __ मुचेरकर्मकस्य सकारादौ सनि परे मोक् इत्ययमादेशो वा भवति न चास्य द्विः । मोक्षति मुमुक्षति चैत्रः, मोक्षते मुमुक्षते वा वत्सः स्वयमेव । अव्याप्यस्येति किम् ? मुमुक्षति वत्सं चैत्रः ॥ १९॥
___ न्या० स०-अव्याप्यस्य-न विद्यते व्याप्यं यस्य, यदा नामनाम्नेत्याश्रयणादविद्यमानं व्याप्यं यस्य तदा मयुरव्यंसकादित्वात् मध्यपदलोप: । मोक्षते वत्स इति-वाक्यकाले मुमुक्षति वत्सं चैत्रः स एवं विवक्षते, नाऽहं मुमुक्षामि 'भूषार्थ' ३-४-९३ इति क्याऽभावः ।
मिमीमादामित्स्वरस्य ॥ ४. १. २०॥
मिमीमा इत्येतेषां वासंज्ञकानां च स्वरस्य सकारादौ सनि परे इदावेशो भवति, न चैषां द्विः । डुमिंगट-मित्सति, मित्सते शतम् , मीति मींच्मींगशोर्ग्रहणम्-मित्सते, प्रमित्सति, प्रमित्सते, शत्रून् , मेति मांकमांङ्कमेंडां ग्रहणम्-मित्सति, प्रमित्सते भूमिम् , अपमित्सते यवान् । मातेर्नेच्छन्त्येके-मिमासति । दासंज्ञ,-दाम ,-प्रदित्सति दानम् , देडदित्सते पुत्रम् , डुदांगक-दित्सति दित्सते वस्त्रम् , दोंच दित्सति दण्डम् , ट्वें वित्सति स्तनम् , डुधांगक धित्सतिधित्सते श्रुतम् । बहुवचनं व्याप्त्यर्ण, १ तेन 'निरनुबन्धग्रहणे न सानुबन्धस्य' * इत्यादि नाश्रीयते । स्वरस्येति किम् ? सर्वस्य मामूत् ॥२०॥
न्या० स०-मिमीमादा०-'मिग्मीगोऽखलचलि' ४-२-८ इत्यात्वे माद्वारेणैव सिध्यति किं मिग्रहणेनेति ? सत्यं, 'नामिनोऽनिट' ४-३-३३ इति सनः कित्वादात्वं न प्राप्नोति । मीति मीचमींगशोरिति-मीण गताविति यौजादिकस्यापि ग्रहः, यतः मींडचमींगशावेव गतौ वर्तमानौ युजादी तेन * निरनुबन्धग्रहणे * इति यद्यऽयं न्यायः स्यात्तदा मांक माने इत्यस्य मतान्तरेण ककारानुस्वारयोरनित्यत्वात् निरनुबन्धग्रहणे सति मांडक् इत्येतस्य ग्रहणं न स्यात्, आदिशब्दात् एकानुबन्धग्रहणे न द्वयनुबन्धकस्य लक्षणप्रतिपदोक्तयोरित्यादयोऽपि नाश्रीयन्ते तेन डुमिंग्टमेंडोरपि ग्रहणम् ।
रम-लभ-शक-पत-पदामिः ॥ ४. १. २१ ॥ एषां स्वरस्य सकारादौ सनि परे इकार प्रादेशो भवति न चैषां द्विः । रभ,-आरि