________________
पाद-१, सूत्र-८-१३ ] श्रीसिद्धहेमचन्द्रशब्दानुशासने चतुर्थोऽध्यायः।
[७६
स्वरादेन म्नो धातोः द्विवचनमाजो द्वितीयादारभ्यैकस्वरोऽवयवो यथेष्टं द्विरुच्यते । अशिश्वीयिषति, अश्वीयियिषति, अश्वीयिषिषति ॥ ७ ॥
न्या० स०-नाम्नो द्वि०-'गम्ययप०' २-२-७४ इति पञ्चमी। यथेष्टमिति-यो य इष्टो 'योग्यतावीप्सा' ३-१-४० इत्यनेनाव्ययीभावः ।
अन्यस्य ॥ ४. १.८॥
स्वरादेरन्यस्य व्यञ्जनादेनम्निो धातोद्विवचन भाजो एकस्वरोऽवयवो यथेष्टं प्रथमो द्वितीयस्ततीयादिर्वाऽन्यतमो द्विरुच्यते । पुपुत्रीयिषति, पुतित्रीयिषति, पुत्रीयियिषति, पुत्रीयिषिषति । पुत्रीयन्तं प्रायुक्त अपुपुत्रीयत् , अपुतित्रीयत् , अपुत्रीयियत् ।। ८॥
न्या० स०-अन्यस्य-द्वितीयादित्यधिकारो नेष्ट इति प्रथमो द्वितीय इत्याद्युक्तम् । अपुत्रीयियदिति-अत्र 'अत:' ४-३.८२ इत्यनेन विषयेऽप्यकारलोपात् परनिमित्तत्वाभावे 'स्वरस्य परे' ७.०-११० इति स्थानित्वाभावात् यि इत्यस्य द्वित्वं, न तु य इत्यस्य, एवं आसूयिय दित्यादिष्वपि।
कण्ड्वादेस्तृतीयः ॥ ४. १. १ ॥
कण्ड्वादेर्धातोद्विवचनमाज एकस्वरस्तृतीय एवावयवो द्विर्भवति । कण्डूयियिषति, असूयियिषति आसूयियत् ॥ ९ ॥
पुनरेकेषाम् ॥ ४. १. १० ॥
एकेषामाचार्याणां मते द्वित्वे कृते पुनद्वित्वं भवति । सुसोषुपिषते, प्राणिणिनिषत , बुबोभूयिषते । एकेषामिति किम् ? सोषुपिषते, प्राणिणिषत , बोभूयिषते ।। १० ॥
न्या० स.-पुनरे० सुसोषुपिषते इति-भृशार्थे यङ 'स्वपेर्यङङ च' ४-४-८० इति वृद् द्वित्वं सोषुपितुमिच्छति सन् , 'अतः' ४-३-८२ इत्यनेन विषयेऽस्य लोपात् 'स्वरस्य परे'७-४-११० इति स्थानित्वाऽभावे यो लुक् सिद्धः । प्राणिणिनिषदिति-द्वित्वेऽप्यन्ते' २-३-८१ इत्यत्र द्वित्वे इति वचनात् द्वयोरेव णत्वं न तृतीयस्यापि ।
यिः सन्वेयः॥ ४. १. ११ ॥ ईयतेद्विवचनभाजो यिः सन् वा द्विर्भवति । ईष्यियिषति, ईष्यिषिषति ॥ ११ ॥ हवः शिति ।। ४. १. १२॥
जुहोत्यादयः शिति द्विर्भवन्ति । जुहोति, जुह्वत् । प्राक्तु स्वरे स्वरविधेरित्येव,जुहवानि ॥ १२ ॥
चराचर-चलाचल-पतापत-वदावद-घनाघन-पाटूपटं वा॥४.१.१३॥