________________
पाद - ४, सूत्र - ९४ ]
श्री सिद्ध हेमचन्द्र शब्दानुशासने तृतीयोऽध्यायः
[ ७५
ग्रन्थते ग्रन्थः स्वयमेव । श्रन्थिग्रन्थी क्रियादौ युजादौ वा श्रनंसीत् दण्डं द्रुण्डी, अनंस्त नमते दण्ड: स्वयमेव, परिणमति मृदं कुलालः, परिणमते मृत स्वयमेव, कृ, गृ, दुह, ब्रु, श्रन्य्, ग्रन्थ्, नम् इति किरादयः, बहुवचनं शिष्टप्रयोगानुसरणार्थम् ।
णिस्नुयात्मनेपदाकर्मकाणां त्रिच्प्रतिषेधः पूर्वसूत्रे उदाहृतः ञित्वेषां पृथग्योगाद्भवत्येवेति चोक्तम् । क्यनिषेध उदाह्रियते । व्यन्त- कारयते कटः स्वयमेव, चोरयते गौः स्वयमेव, उत्पुच्छ्यते गौः स्वयमेव, स्नु, प्रस्नुते गौः स्वयमेव श्रि, उच्छ्रयते दण्डः स्वयमेव, आत्मनेपदाकर्मकः - विकुर्वते सैन्धवाः स्वयमेव, आहते गौः स्वयमेव । अन्ये तु णिस्नुश्रयात्मनेपदाकर्मकेभ्यो ञटोऽपि प्रतिषेधमिच्छन्ति, तन्मते पाचयिता पाचयिष्यते श्रोदनः, प्रस्नोता प्रस्नोष्यते गौः, उच्छ्रयिता उच्छ्रयिष्यते दण्डः, आहन्ता आहनिष्यते गौः स्वयमेवेत्येव भवति । स्तुनमो: अन्तर्भू तण्यर्थत्वेन सकर्मकत्वाद्गवादेः कर्मकर्तृत्वम् ।
यत्र तु यर्थो नास्ति तत्र कर्तृनैव । यथा प्रस्नौति गौर्दोग्धुः कौशलेन, नमति पल्लवो वातेन । ननु कर्मस्थया क्रियया एकाकर्मक्रिये कर्तरि ञिक्यात्मनेपदानि भवन्ति अत्र तु ण्यन्तानां प्रयोजकव्यापारः सन्नन्तानां चेच्छाकर्तृ स्थैव क्रियेति, त्रिक्ययोः प्राप्तिरेव नास्ति किं प्रतिषेधेन ? उच्यते, प्रयोजकव्यापारस्येच्छायाश्च तदर्थत्वात् करणादिक्रियारूपस्य प्रकृत्यर्थस्य प्राधान्यम् तस्य च कर्मस्थत्वात् णिसन्नन्तानामपि कर्मस्थक्रियत्वम्, तथांबते कथेत्यत्र वचनं शब्दप्रकाशनफलत्वात् उपाध्यायेनोक्तः करोतीतिवत् प्रेरणार्थस्वात् वा कर्मस्थक्रियारूपम् । भूषाक्रियाणां च भूषाफलं शोभाख्यं कर्मणि दृश्यत इति कर्मस्थक्रियत्वम् एवमन्यत्रापि भावनीयम् ॥ ३ ॥
·
न्या० स०- - भूषार्थ :- जिट् प्रतिषेधार्थमिति - अन्यथा पृथग्योगात् ण्यन्तद्वारात् ञिट् प्रतिषेधो न स्यात्, किंतु पूर्वेण त्रिच एव । क्रियादों युजादौ चेति धातुपारायणे तु भ्वादिसत्कावपि स्नुनमोरिति ननु स्नुनमावकर्मको तत्कथमनयोः कर्मस्थक्रियत्वमित्याह- अन्तभू. तण्यर्थत्वेनेति । अत्र तु ण्यन्तानामिति - यथा कुर्वन्तं प्रयुङ्क्ते इति अत्र हि प्रयोजकक्रिया देवदत्तादौ स्थिता यतो देवदत्तः कटादि कुर्वन् चैत्रेण प्रयुक्तः स च कर्त्तव । सन्नन्तानां चेति- इच्छायाः प्राणिधर्मत्वात्, यश्च इच्छति स कर्त्तव । ब्रूते कथेत्यत्रेति ननु वचनक्रिया देवदत्ते कतरि स्थिता, न तु कथाकर्मणि तत्कथं कर्मस्थक्रियत्वमित्याह - शब्दप्रकाशनफलत्वादिति-अस्यां ये शब्दास्ते प्रकाशमाना वचनेन प्रकाश्यन्ते इति वचनं कर्मस्थक्रियारूपम् । प्रेरणार्थत्वाद्वेति-अयमर्थः प्रेरणार्थी वा अत्र ब्रू ग्, ततश्च ब्रूत इति कोऽर्थः ? शिष्येण बुध्यमानां बोधयतीत्यर्थः ।
करणक्रियया कचित् ॥ ३. ४. १४ ॥
एकधातौ पूर्वदृष्टया करणस्थया क्रियया एकाकर्मक्रिये कर्तरि ञिक्यात्मनेपदानि क्वचिद्भवन्ति । परिवारयन्ति कण्टकैः पुरुषा वृक्षम्, परिवारयन्ते कण्टका वृक्षं स्वयमेव, यवचिन्न भवति साध्वसिश्छिनत्ति ॥ ६४ ॥