________________
बृहद्वृत्ति-लघुन्याससंवलिते
[ पाद- ४, सूत्र - ६३
श्रचचुरत् गां चैत्र, अचुचूरत गौः स्वयमेव । पुच्छमुत्क्षिपति उत्पुच्छयते गौः । अन्तर्भूतयर्थत्वात्सकर्मकत्वे उदपुपुच्छत गां देवदत्तः, उदपुपुच्छत गौः स्वयमेव । यद्वा उत्पुच्छा मकार्षीदिति णिचि उदपुपुच्छद्गां देवदत्तः, उदपुपुच्छतः गौः स्वयमेव । स्नुप्रास्तावीत् गां देवदत्तः, प्रास्नोष्ट गौः स्वयमेव । श्रि उदशिश्रियत् दण्डं दण्डी, उदशिश्रियत दण्डः स्वयमेव आत्मनेपदाकर्मक, व्यकार्षीत् संन्धवं चैत्रः, वल्गयति स्मेत्यर्थः ।
७४ ]
व्यकृत सैन्धवः स्वयमेव, विकरोतिर्वल्गनेऽन्तर्भू तण्यर्थः कर्मस्थक्रियः, व्यकार्षीत् कटं चैत्रः, व्यकृत कटः स्वयमेव, अवधीत् गां गोपः, आहत गौः स्वयमेव । व्यंताप्सीत् पृथिवीं रविः । व्यतप्त पृथ्वी स्वयमेव, त्रिनिषेधात् ञिट् भवत्येव । पाचिता, पाचिषीष्ट श्रोदनः स्वयमेव प्रास्नाविष्ट प्रस्नाविषीष्ट गौः स्वयमेव, उच्छ्रायिता उच्छ्रायिषीष्ट दण्ड: स्वयमेव । आघनिष्ट आघानिषीष्ट गौः स्वयमेव । पृथग्योगात् उत्तरेण ञिटः प्रतिषेधो न भवति ||२|
न्या० स० - णिस्नु० - प्रपीपचतौदनः स्वयमेवेति - अत्र प्रयोजकव्यापाराविवक्षायां ग्नि निवर्त्तते, ण्यन्तानां त्रिच्प्रतिषेधात् । स्वयं पच्यमान ओदनः स्वं प्रायुक्तेति ततोऽपीपचदोदनः स्वमात्मानमित्यर्थः । स ओदनः विवक्षते - नाहमात्मानमपीपचम्, नाहमात्मानं सिध्यन्तमसो सधं किं तर्हि ? स्वयमोदनोऽपीपचत असीसघत इत्यर्थ: प्रास्नोष्ट गौरितिअत्र पूर्वमेव नित्यत्वादन्तरङ्गत्वाच्च गुणः ।
श्रात्मनेपदाकर्मकेति येषामकर्मकाणामात्मनेपदं व्यवधाय तेषामित्यर्थः ।
भूषार्थ सन्- कियादिभ्यश्च विक्यौ । ३. ४. १३ ॥
भूषार्थेभ्य: सन्नन्तेभ्यः किरादिभ्यश्चकाराणिश्नुध्यात्मनेपदाकर्मकेभ्यश्च धातुभ्यः कर्मकर्तरि क्यो न भवतः । ञिरुत्सृष्टानुबन्धो ञिच्ञिटोर्ग्रहणार्थ: । भूषार्थ - श्रलमकार्षोत् कन्यां चैत्रः, अलमकृत कन्या स्वयमेव, एवमलंकरिष्यते प्रलंकुरुते कन्या स्वयमेव, पर्यस्कात्कन्यां चैत्रः, पर्यस्कृत परिष्करिष्यते परिष्कुरुते कन्या स्वयमेव, अबूभुषत् कन्यां छात्रः, प्रबूभुषत भूषयिष्यते भूषयते कन्या स्वयमेव, अममण्डत् कन्या छात्त्र: अममण्डत मण्डमण्ड कन्या स्वयमेव, भूषिमण्डयोर्ण्यन्तत्वेनैव निषेधे सिद्धे विप्रतिषेधार्थं भूषार्थदाहरणम् ।
सन्नन्त- अचिकीर्षीत् कटं चैत्रः । अचिकीर्षीष्ट, चिकीषिष्यते, चिकीर्षते कटः स्वयमेव, अबिभित्सात् कुशूलं चैत्रः, अबिभित्सिष्ट बिभित्तिष्यते बिभित्सते कुशूल: स्वयमेव, किरादि - अकारीत्पांसु करी, अकीष्ट कीर्षीष्ट किरते पांसुः स्वयमेव एवमवाकी श्रवकीर्षीष्ट अवकिरते पांसुः स्वयमेव, अगारीत् ग्रासं चैत्रः, अगोष्ट गीर्षीष्ट गिरते ग्रासः स्वयमेव, एवं न्यगोष्ट निगोर्षीष्ट निगिरते यासः स्वयमेव, दोग्धि गां पयो गोपः, दुग्धेः गौः स्वयमेव, दुग्धे गौः पयः स्वयमेव, कथमदोहि गौः स्वयमेव, दुहेजिज्विकल्प उक्तः । अवोचत्कथां चैत्रः । अवोचत ब्रूते कथा स्वयमेव । अश्रन्थीत् मालां मालिकः । अश्रन्थिष्ट श्रथ्नीते श्रन्थते माला स्वयमेव । अग्रन्थोत् ग्रन्थं विद्वान् । अग्रन्थिष्ट ग्रथ्नीते