________________
पाद-४, सूत्र-८८-९२ ] श्रीसिद्धहेमचन्द्रशब्दानुशासने तृतीयोऽध्यायः
[७३
प्रविशेषणेति-कर्मणि सत्यऽसति वेत्यर्थः, अविशेषेणेत्युक्तेऽपि कर्मणि 'न कर्मणा त्रिच्' ३-४-८८ इति नित्यं प्रतिषेधः अकर्मणि तु विकल्पः ।
न कर्मणा बिच ॥ ३. ४.८८ ॥
पचिदुहेः कर्मणा योगेऽनन्तरोक्ते कर्तरि जिच् न भवति । अपक्तोदुम्बरः फलं स्वयमेव, अदुग्ध गौः पयः स्वयमेव । कर्मणेति किम् ? अपाच्योदनः स्वयमेव, अदोहि गौः स्वयमेव । अनन्तरोक्ते कर्तरीत्येव,-प्रपाचि उदुम्बरः फलं वायुना, अदोहि गौः पयो गोपालकेन ।।८।।
रुषः ॥ ३. ४. ८१ ॥
रुधो धातोरनन्तरोक्ते कर्तरि जिच् न भवति । अरुद्ध गौः स्वयमेव, अनन्तरोक्ते कर्तरोत्येव,-अरोधि गोर्गोपालकेन ।॥८६॥
स्वर-दुहो वा ।। ३. ४.१०॥
स्वरान्ताद्धातोर्दुहेश्वानन्तरोक्ते कर्तरि त्रिच वा न भवति । अकृत अकारि कटः स्वयमेव, अलविष्ट अलावि केदारः स्वयमेव. अदुग्ध प्रदोहि गौः स्वयमेव । स्वरदुह इति किम् ? अभेदि कुशूल: स्वयमेव । अनन्तरोक्ते कर्तरीत्येव,-अकारि कटश्चेत्रेण, अदोहि गौर्बल्लवेन ॥१०॥
तपः कनुतापे च ॥ ३. ४. ११ ॥
तपेर्धातो: कर्मकर्तरि कर्तरि अनुतापे चार्थे जिच न भवति । अनुतापग्रहरणाद्भावे कर्मणि च । अन्ववातप्त कितवः स्वयमेव । कर्तरि,-प्रतप्त तपासि साधुः, अन्वतप्त चैत्रेण, अन्ववातप्त पापः पापेन कर्मणा । कत्रनुतापे चेति किम् ? प्रतापि पृथिवी राज्ञा ॥१॥
न्या० स०-तपत्र-नन्वनेन सामान्येन सानुतापेऽननुतापे च कर्तरि कर्मकर्तरि च भविष्यति किमनुतापग्रहणेनेत्याशङक्याह-अनुतापप्रहरणादिति । अन्वतप्त चैत्रेणेति-पश्चात्तपनं कृतमित्यर्थः, अग्रेतने तु पश्चात्तापं कारित इत्यर्थः ।
णि स्नु-यात्मनेपदाकर्मकात् ॥ ३. ४. १२ ॥
ण्यन्ताद्धातोः स्नुश्रिभ्यां चात्मनेपदविधावकर्मकेभ्यश्च कर्मकर्तरि निच न भवति । येभ्यः कर्मण्यसति आत्मनेपदं विधीयते, ते आत्मनेपदाकर्मकाः। णि-पचति ओदनं चैत्रः, तं मैत्रः प्रायुक्त, अपीपचत् ओदनं चैत्रेण मैत्रः। पुनरोदनस्य सुकरत्वेन कर्तृत्वे अपीपचतौदनः स्वयमेव । यदि वा स्वयमेव पच्यमानः ओदन: स्वं प्रायुक्त अपीपचतौदनः स्वयमेव, उभयत्र स्वयमेवापाचीत्येवार्थः।