________________
पाद-४, सूत्र-३०-३१ ] श्रीसिद्धहेमचन्द्रशब्दानुशासने तृतीयोऽध्यायः
[५३
शुचि, नील, हरित, मन्द, मद्र, भद्र, संश्चत , तृपद, रेफन , रेहव , वेहव , वर्चस् , उन्मनस् , सुमनस् , दुर्मनस् , अभिमनस् ॥ २६॥
___न्या० स०-चव्यर्थे भृशार्थे०-व्यर्थ इत्यनेनेति-ननु भृशादेश्व्यर्थे क्यङविधानात् च्व्यर्थस्य चाऽक्रियारूपत्वात् ( अधातुत्वात् ) कथं क्यङन्तात्तिवादिरित्याह-लक्षणयेतिउपचारेणेत्यर्थः, मुख्यवृत्त्या हि व्यर्थ इत्यनेन प्रागऽतत्तत्वं केवलमेवाभिधीयते, न भवत्यर्थविशिष्टं, लक्षणया तु तद्विशिष्टमपि, यद्येवं च्व्यर्थ इत्यनेन प्रागतत्तस्वं लक्ष्यते तहि करोत्यर्थविशिष्टेऽपि प्रागतत्तत्त्वं प्राप्नोतीत्याशङ क्याह
करोतिस्त्वित्यादि-अयमर्थः करोत्यर्थविशिष्टे प्रागऽतत्तत्त्वे भशादीनां कर्तृत्वं न संभवत्यपि तु कर्मत्वमेवेत्याह-कर्तु रित्यनेन व्युदस्त इति-ननु व्यर्थे च्वे: क्यङश्च विधानात् क्यङा च्विबाधा प्राप्नोति ? इत्याशङक्याह-प्रागतत्तत्वमात्रे इति-अयमर्थः भवत्यर्थविशिष्टे व्यर्थे क्यङ विहितः, च्विस्तु तद्योगमात्रेऽत एव वियोगे करोति भवत्योः प्रयोगो भवत्यऽनुक्तार्थत्वात् क्रियार्थत्वाभावाद् धातुत्वं च न भवति ।
डाच्लोहितादिभ्यः षित् ॥ ३. ४. ३० ॥
डाचप्रत्ययान्तेभ्यो लोहिताविभ्यश्च कर्तृभ्यश्च्च्यर्थे क्यङ् प्रत्ययः षिद्भवति वा । डाच अपटत् पटद्भवति पटपटायति, पटपटायते । एवं दमदमायति, दमदमायते । डाजन्तारक्यविधानात कृम्वस्तिभिरिव क्यापि योगे डान् भवति । अलोहितो लोहितो भवति लोहितायति, लोहितायते ।
कर्तु रित्येव ? अपटपटा पटपटा करोति, अलोहितं लोहितं करोति । व्यर्थ इत्येव ? लोहितो भवति । लोहित, जिह्म, श्याम, धूम, चर्मन् , हर्ष, गर्व, सुख, दुःख, मूर्छा, निद्रा, कृपा, करुणा। बहुवचनमाकृतिगणार्थम् । लोहितादिषु लोहितशब्दादेवेच्छन्त्यन्ये । षकारः 'क्यङ्गो नवा' (३-३-४३) इति विशेषणार्थः । धूमादीनां स्वतन्त्रार्थवत्तीनां प्रकृतिविकारभावाप्रतीतेश्च्व्यर्थो नास्तीति तद्ववृत्तिभ्यः प्रत्ययो भवति । अधूमवान् धूमवान् भवति धूमायति, धूमायते ॥३०॥
न्या० स०-डाच्लोहिता०-डाजन्तात् क्यविधानादिति-ननु भवत्यर्थविशिष्टे व्यर्थे क्यङले विहितः, ततश्च क्यङषा भवत्यर्थस्योक्तत्वात् तदभावे निमित्ताभावे इति न्यायात् डाचोऽपि निवृत्ति:प्राप्नोति इत्याशङक्याह-डाजन्तात क्यविधानाव-डाच भवतोति-विधानसामर्थ्यात् कृभ्वस्त्यभावे न निवर्त्तते इत्यर्थः, अन्यथा क्यङषा भवत्यर्थस्योक्तत्वाद् भवतियोगाऽभावात् डाच् न स्यात् ।
बहुवचन मिति-तेनामृतं यस्य विषायतीति सिद्धं, यद्वा विषस्यायो लाभः स इवाचरतीति क्विप् ।
कष्ट कक्ष-कृच्छ-सत्र-गहनाय पापे क्रमणे ॥ ३. ४.३१॥
कष्टादिभ्यो निर्देशादेव चतुर्थ्यन्तेभ्यः पापे वर्तमानेभ्यः कमणेऽ” क्यङ् प्रत्ययो वा भवति । कष्टाय कर्मणे कामति कष्टायते, एवं कक्षायते, कृच्छायते, सत्रायते,