________________
५२ ]
बृहद्वृत्ति-लघुन्याससंवलिते
[पाद-४, सूत्र-२६-२९
मत्स्यमित्यनेन बाह्यकर्मणाऽसंबन्धात् । पूर्वप्रसिद्धचनुवाद इति-तेनास्मिन् स्वमते किपित् कार्य न भवति, परमते तु कितः फलमाचारक्विपि 'अहन्पञ्चम०' ४-१-१०७ इति दीर्घ इदामति कीमतीत्यादौ।
क्यङ्॥ ३. ४. २६ ॥
कर्तु रुपमानादाचारेऽर्थे क्यङ् प्रत्ययो वा भवति । श्येन इवाचरति श्येनायते, हंसायते, अश्वायते, गर्दभायते, गल्भायते, क्लीबायते, होडायते । विपक्यङोस्तुल्यविषयत्वादसत्युत्सर्गापवादत्वे पर्यायेण प्रयोगः । ककारः सामान्यग्रहणार्थः, ऊकार प्रात्मनेपदार्थः ॥ २६॥
न्या० स० क्यङ-क इवाचरति इति कृते कायांचवे इत्यत्र सस्वरस्य क्यङः फलम् ।
सो वा लुक् च ॥ ३. ४. २७॥
स इति आवृत्त्या पञ्चम्यन्तं षष्ठयन्तं चाभिसंबध्यते। सकारातात्क रुपमानादाचारेऽर्थे क्यङ् प्रत्ययो वा भवति अन्त्यसकारस्य च लुग्वा भवति । पय इवाचरति पयायते, पयस्यते, सरायते, सरस्यते, अन्ये स्वप्सरस एव सलोपो नान्यस्य अप्सरायते, अन्यत्र पयस्यते इत्याद्यवेत्याहुः । क्यङ् सिद्धो लुगथं वचनम् , चकारो लुचः क्यसंनियोगार्थः ।२७।
न्या० स० सोवा०:-क्यङ्सप्रियोगार्थ इति-समुच्चये तु स्वतन्त्री लुकक्यौ स्याताम् । अप्सरायते इति-अप्सरस्यते इत्यपि ।
ओजोऽप्सरसः ॥ ३. ४. २८ ।।
प्रोजःशब्दो वृत्तिविषये स्वभावात्तद्वति वर्तते, ओजःशब्दादप्सरस्शब्दाच्च कर्तु। रुपमानमृतादाचारेऽर्थे क्यङ्ग प्रत्ययो वा भवति सलोपश्च। ओजस्वीवाचरति ओजायते अप्सरायते । अन्ये त्वोजःशब्दे सलोपविकल्पमिच्छन्ति,-मोजायते, ओजस्यते ॥२८॥
न्या० स० ओजोप्सर०-पूर्वेणसिद्धे नित्यसलोपार्थं वचनम् । व्यर्थे भृशादेः स्तोः॥ ३. ४. २१ ॥
भूशादिभ्यः कर्तृभ्यः व्यर्थे क्यङ् प्रत्ययो वा भवति सकारतकारयोर्यथासंभवं लुक च, व्यर्थे इत्यनेन लक्षणया भवत्यर्थविशिष्टं प्रागतत्तत्त्वमुच्यते, करोतिस्तुकतुरित्येनन व्युदस्तः । भवत्यर्थे च विधानात् क्यङन्तस्य क्रियार्थत्वम् भवत्यर्थशब्दाप्रयोगश्च-अभशो भशो भवति भृशायते, उन्मनायते, वेहायते, अनोजस्वी ओजस्वी (ओजः) भवति ओजायते,अत्र तद्ववृत्तेरेव च्व्यर्थ इति धर्ममात्रवृत्तेन भवति-अनोज प्रोजो भवति । कर्तु रित्येव ? अभृशं भृशं करोति । व्यर्थ इति किम् ? भृशो भवति । प्रागतत्तत्त्वमात्रे च्वेविधानात्क्या चिर्न बाध्यते भृशीभवति । भृश, उत्सुक, शीघ्र, चपल, पण्डित, अण्डर, कण्डर, फेन,