________________
५४ ]
बृहद्वृत्ति-लघुन्याससंवलिते
[ पाद-४, सूत्र-३२-३५
---------
गहनायते । कष्टाविम्य इति किम् ? कुटिलाय कर्मणे कामति । चतुर्थीनिर्देशः किम् ? रिपुः कष्टं कामति । पाप इति किम् ? कष्टाय तपसे कामति, कमणमत्र न पादविक्षेप किन्तु प्रवृत्तिमात्रम् , द्वितीयान्तेभ्यः पापचिकीर्षायामित्यन्ये, कष्टं चिकीर्षति कष्टायते इत्यादि ॥३१॥
न्या० स०-कष्टकक्ष०- कष्टायते इति-कष्टाय पापभूताय पुरुषाय प्रवर्तते इत्यादावपि । कष्टाय तपसे कामतीति-पापमनार्जवाचारः स इह नास्तीति न भवति, अथ यथेह पापं नास्ति तथा क्रामणमपि पादविक्षेपो नास्तीति व्यङ्गवैकल्यमित्याशङ क्याहक्रमणमत्रेति
रोमन्थाद् व्याप्यादुच्चर्वणे ॥ ३. ४. ३२ ॥
रोमन्थावकर्मणः पर उच्चर्वणेऽर्थे क्यङ प्रत्ययो वा भवति । अभ्यवहृतं द्रव्यं रोमन्थः, उदगोर्य चर्वणमुच्चर्वणम् । रोमन्थम उच्चर्वयति रोमन्थायते गौः-उदगीर्य चर्वयतीत्यर्थः । उच्चर्वण इति किम् ? कोटो रोमन्थं वर्तयति, उद्गीर्य बहिस्त्यक्तं पृष्ठान्तेन निर्गतं वा द्रव्यं गुटिकां करोतीत्यर्थः ॥३२॥
न्या० स०-रोमन्थ-उच्चर्वयतीति-बहुलमेतन्निदर्शन मिति चुरादित्वम् । फेनोष्म-बाष्प-धूमादुद्धमने ॥ ३. ४. ३३ ॥
फेनादिभ्यः कर्मभ्य उद्वमनेऽर्थे क्यङ् प्रत्ययो वा भवति । फेनमुद्रमति फेनायते, एवमूष्मायते, बाष्पायते, धूमायते ॥३३॥
सुखादेरनुभवे ॥ ३. ४. ३४ ॥
साक्षात्कारोऽनुभवस्तस्मिन्नणे सुखादिभ्यः कर्मभ्यः क्यङ प्रत्ययो वा भवति । सुखमनुभवति सुखायते, दुःखायते । अनुभव इति किम् ? सुखं वेदयते प्रसाधको देवदत्तस्य, मुखादिविकारेणानुमानतो निश्चिनोतीत्यर्थः। सुख, दुःख, तृप्र, कृच्छ, प्रास्त्र, अलीक, करण, कृपण, सोढ, प्रतीप ॥३४॥
शब्दादेः कृतौ वा ।। ३. ४. ३५ ॥
शब्दादिभ्यः कर्मभ्यः करोत्यर्थे क्यङ, प्रत्ययो वा भवति, णिजपवादः । शब्द करोति शब्दायते, वैरायते, कलहायते,-वाशब्दो व्यवस्थितविभाषार्थः, तेन यथादर्शनं णिजपि भवति,-शब्दयति, वैरयति । वाधिकारस्तु वाक्यार्थः । शब्द, वैर, कलह, ओघ, वेग, युद्ध, अभ्र, कण्व, मम, मेघ, अट, अटया, अटाटया, सोका, सोटा, कोटा, पोटा, प्लुष्टा, सुदिन, दुर्दिन, नीहार ॥३५।।
न्या० स० शब्दादे-व्यवस्थितविमाणेति-व्यवस्थितं प्रयोगारूढं विधिप्रतिषेधादिकार्य विशेषेण भाषते इति व्यवस्थितविभाषा तदर्थ इत्यर्थः ।