________________
बृहद्वृत्ति-लघुन्याससंवलिते
[पाद-४, सूत्र-१३-१७
तेन दंदशीतीतिः-अन्तरङ्गानपि इति न्यायात् प्रथममेव यङो लुपि ङित्वाभावात् न लोपो न स्यात् ।
न गृणाशुभरुचः॥ ३. ४. १३॥
गणातिशुभिरुचिभ्यो भूशाभीक्षण्यादौ यङ् न भवति । गहितं गृणाति, भृशं शोभते, भृशं रोचते ।। १३ ॥
न्या० स०-न गृणा०:-भृशाभीक्ष्ण्यादाविति-आदिपदात् गृणातेगृह्येऽर्थे । बहुलं लुप् ।। ३. ४. १४ ॥
यडो लुप् बहुलं भवति । बोभूयते, बोभवीति, बोभोति; रोख्यते, रोरवीति, रोरोति; लालप्यते, लालपीति, लालप्ति; चंक्रम्यते, चंकपीति, चंक्रन्ति ; जंजप्यते, जंजपीति, जंजप्ति । बहुलग्रहणं प्रयोगानुसरणार्थम् । तेन क्वचिन्न भवति ? लोलूया, पोपूया ॥१४॥
अचि ॥ ३. ४. १५ ॥
प्रचि प्रत्यये परे यको लुप् भवति । लोलुवः, पोपुवः, सनीनसः, बनीध्वंसः, चेच्यः, नेन्यः । नित्यायं वचनम् ॥ १५॥
न्या० स०-प्रचिः-लोलव इति-ॐ अन्तरङ्गानपि * इति न्यायात् अत इति अन्तरङ्गमपि अलुकं बाधित्वा स्वरान्तस्यैव यङो लुप् । ननु यङो लुपि 'नामिनः' ४-३-१ इति कथं न गुणः ? 'न वृद्धिश्चाविति' ४-३-१1 इति निषेधात् ।
नोतः ।। ३. ४. १६ ॥ . उकारान्ताद्विहितस्य योऽचि परे लुप् न भवति । योयूयः, रोख्यः ॥ १६ ।।
न्या० स०-नोत:-योयूप इति-अत्र पृथग्योगात् बहुलमित्यनेनापि न, अन्यथा चिनोत इत्येकमेव कुर्यात् ।
चुरादिभ्यो णिच् ॥ ३. ४. १७ ॥
णितश्चुरादयः-तेभ्यो धातुभ्यः स्वार्थे णिच् प्रत्ययो भवति । चोरयति, नाटयति, पदयते,-णकारो वृद्धयर्थः । णिग्रहणेषु सामान्यग्रहणार्थश्च । चकारः सामान्यग्रहणाविघातार्थः । चुरण, पृण , घृण, श्वल्कवल्कण , नक्कधक्कण , चक्कचुक्कण , टकुण , अर्कण् , पिव्वण , पचुण् , म्लेच्छण, ऊर्जण् , तुजपिजुण, भजुण् , पूजण् , गजमार्जण् , तिजण , वजवजण , रुजण, नटण, चटचुटचुछुटुण, कुट्टण, पुट्टचुट्टपुट्टण, पुटमुटण् , अस्मि