________________
पाद-४, सूत्र-१०-१२ ] श्रीसिद्धहेमचन्द्रशब्दानुशासने तृतीयोऽध्यायः
[४५
च दनीध्वस्यते इति न स्यात् , व्यञ्जनादीनामेकस्वराणामदन्तानामेव स्यात् , तथा च पापच्यते इति न स्यादिति नियमाशङ्का स्यात्तन्निवृत्त्यर्थम् ।
अटयर्तिसूत्रिमूत्रिसूच्यशूर्णोः ॥ ३. ४. १० ॥
एभ्यो भृशाभीक्षण्ये वर्तमानेभ्यो यङ्प्रत्ययो भवति । भृशं पुनःपुनर्वाटति प्रटाटयते । एवमित्ति ऋच्छति वा प्ररायते, सूत्रण-सोसूत्र्यते, मूत्रण-मोमूत्र्यते, सूचण्-सोसूच्यते, अश्नुते अश्नाति वा अशाश्यते, ऊर्गुण्क्-प्रोर्णोनूयते । अटयर्त्यशामव्यञ्जनादित्वात् सूत्रिमूत्रिसूचीनामनेकस्वरत्वात् ऊर्णोतेरव्यञ्जनाद्यनेकस्वरत्वात्पूर्वेणाप्राप्ते वचनम् ।। १०॥
न्या स०-अयति०-यङोऽदन्तत्वे अटाट्यते, अरार्यते इत्यादिषु फलम् ।
गत्यर्थात्कुटिले ॥ ३. ४. ११॥
व्यञ्जनादेरेकस्वराद् गत्यर्थात्कुटिल एवार्थे वर्तमानात् धातोर्यङ्भवति न भशाभीक्ष्ण्ये । कुटिलं कामति चंक्रम्यते, दन्द्रम्यते । कुटिल इति किम् ? भशमभीक्ष्णं वा कामति । धात्वर्थविशेषणं किम् ? साधने कुटिले माभूत-कुटिलं पन्थानं गच्छति । तककौण्डिन्यन्यायेन भशाभीक्षण्ययोनिषेधार्थ वचनम् । भृशाभीक्ष्ण्ये कुटिलयुक्ते एव यङ्न केवल इत्यन्ये, एवमुत्तरत्रापि । कथं जंगमः ? रूढिशम्बोऽयम् लक्षणया स्थावरप्रतिपक्षमात्रे वर्तते ।। ११॥
'न्या० स० गत्यर्थात्:-तक्रकौण्डिन्येति-अयमर्थः सामान्यलक्षणस्य विधेविशेषलक्षणो विधिधिको भवति, तक्रं देयमस्मै तक्रदेयः कौण्डिन्यः 'मयूर' ३-१-११६ इति देयलोपः । कथं जङ्गमः ? इति-अत्र कुटिलार्थाभावे कथं यङित्याशङ्कार्थः । लक्षणयेति-यन्मुख्यं प्रवृत्तिनिमित्तं शब्दस्य तत्प्रत्यासत्त्या तदुपलक्षितं धर्मान्तरमपादाय प्रवृतिर्लक्षणा तया। गच्छतीति-'गमेज च वा' १३ (उणादि) इत्यऽप्रत्यये वा जमादेशे च ।
ग-लुप सद-चर-जप-जभ-दश-दहो गये ।। ३. ४. १२ ॥
गो एवार्थे वर्तमानेभ्यो गृप्रभृतिभ्यो धातुभ्यो यप्रत्ययो भवति न भृशादिषु । गहितं निगिरति निजेगिल्यते । एवं लोलुप्यते, सासद्यते, चञ्चर्यते, जञ्जप्यते, जञ्जभ्यते, दन्दश्यते, दंदह्यते । दंशेः कृतनलोपस्य निर्देशो यङलुप्यपि नलोपार्थः- तेन दंदशीति । गोति किम् ? साधु जपति । धात्वर्थविशेषणं किम् ? साधने गा माभूतजपति वृषलः । नियमः किम् ? भृशं पुनःपुनर्वा निगिरति कुटिलं चरतीत्यत्र न भवति ।१२।
न्या० स०-गृलुप-लोलुप्यते इति-लुप्लु ती युपरुपलुपचित्यस्य वा । चंचूर्यते इति'अङ हिहन०' ४-१-३४ इत्यतः पूर्वादित्यधिकारात् द्वित्वे सति 'ति चोपान्त्यातः' ४-१-५४ इति उत् ,