________________
४४ ]
बृहद्वृत्ति-लघुन्याससंवलिते
[ पाद- ४, सूत्र - ९
मुख्यो धातुरेव । नामापि धातोः सकाशाद् भवति । उक्तं च- नाम च धातुजमाह । उत्तरार्थमिति यदा तु 'दीर्घश्च्वियङ' ४-३ - १०८ इत्यादि कित्त्वफलं तदा धातुग्रहणमत्रापि सार्थम् ।
व्यञ्जनादेरेकस्वराट् शृशाऽऽभीक्ष्ण्ये यवा ।। ३. ४.१॥
गुणक्रियाणामधिश्रयणादीनां क्रियान्तराव्यवहितानां साकल्येन संपत्तिः फलातिरेको वा भृशत्वम्, प्रधानक्रियाया विक्लेदादेः क्रियान्तराव्यवधानेनावृत्तिराभीक्ष्ण्यम्, तद्विशिष्टेऽर्थे वर्तमानाद्धातोर्व्यञ्जनादेरेकस्वराद्यङ्प्रत्ययो वा भवति । भृशं पुनःपुनर्वा पचति पापच्यते, जाज्वल्यते, अथाभीक्ष्ण्ययङतस्याभीक्ष्ण्ये द्वित्वं कस्मान्न भवति ? उक्तार्थत्वात् यदा तु भृशार्थयङतादाभीक्ष्ण्यविवक्षा - तदा भवत्येव । पापच्यते पापच्यते इति, तथा भृशार्थयङतादाभीक्ष्ण्ये आभीक्ष्ण्ययङताद्वा भृशार्थे विवक्षिते यदा पश्चमी केवला, तदा सा केवला तदर्थद्योतनेऽसमर्थेति तदर्थद्योतने द्विर्वचनमपेक्षते । पापच्यस्व पापच्यस्वेति धातोरित्येव ? तेन सोपसर्गान्न भवति । भृशं प्राति । व्यञ्जनादेरिति किम् ? भृशमीक्षते । एकस्वरादिति किम् ? भृशं चकास्ति । केचिज्जागर्तरिच्छन्ति - जाजाप्रीयते । सर्वस्माद्धातोरायादिप्रत्ययरहितात्केचिदिच्छन्ति-अवाव्यते, दादरिद्रयते । भृशाभीक्ष्ण्ये इति किम् ? पचति । वेति किम् ? लुनीहि लुनीहीत्येवायं लुनातीत्यादि यथा स्यात् ।। ६ ।।
न्या० स० - व्यञ्जनावे ० : -- क्रियान्तराऽव्यवहितानामिति - विरोधिभिर्ग्रामगमनादिभि: अविरोधिभिस्तूच्छ्वासादिभिर्भवत्येव । साकल्येन संपत्तिरिति सामस्त्येन ढौकनमित्यर्थः । फलातिरेको वेति- फलसमाप्तावपि क्रियानुपरतिः ।
प्रधानक्रियाया इति पचौ विक्लेदः प्रधानक्रिया, तां कश्चित्समाप्य क्रियान्तरमनारभ्य पुनस्तामेव क्रियामारभते तस्याः पुनः पुनर्भाव अभीक्ष्ण्यं तदा भवत्येवेति यदा त्वाभीक्ष्ण्ययङन्ताद् भृशार्थविवक्षा, तदा न द्वित्वं शब्दशक्तिस्वाभाव्यात् तस्यार्थस्य यङव प्रतिपादितत्वात् । किंच भृशत्वं गुणक्रियाणां साकल्येन संपत्तिः, अभीक्ष्ण्यं प्रधानक्रियायाआवृत्तिः, अतः प्रधानक्रियायां गुणक्रिया न्यग्भूतेति ।
,
दामीति तर्हि एतस्यां विवक्षायां पञ्चम्यपि न प्राप्नोति ? न, शब्दशक्तिस्वाभाव्यात्, 'भृशाभीक्ष्ण्ये० ' ५-४-४२ इति पञ्चमी भवत्येव, लुनीहि लुनीहीत्येवायमिति, न च हि-स्वविधानसामर्थ्यादेव तौ भविष्यत इति वाच्यं, स्वराद्यनेकस्वरेभ्यः तयोश्चरितार्थत्वात् तथा यदा भृशं पचति, पचनविशिष्टो भृशार्थो धात्वर्थस्तदा वाक्यार्थमपि वा ग्रहणम्, तर्हि वाक्यार्थमिति कथं नोक्तम् ? सत्यं, यदा पचतिना पाकः, भृशब्देन तु भृशार्थतद वाक्यं सिद्धमिति वाक्यार्थमिति नोक्त पाक्षिकप्राप्तेरप्रधानत्वात् । ननु ' व्यञ्जनादेरेकस्वात्' ३-४-९ इति किमर्थं यत उत्तरसूत्रेऽट्यतिग्रहणात् व्यञ्जनादित्वं सूत्रिमूत्रिग्रहणात् एकस्वरत्वं चात्र लप्स्यते, तस्मादुत्तरसूत्रकरणादिह 'व्यञ्जनादेरेक० ३-४-९ एव भविष्यति ? नैवं, गत्यर्थानां भृशा भीक्ष्ण्येऽर्थे यदि यङ स्यात्तदाऽट्यत्त्यरेव स्यात्, तथा