________________
पाद-४, सूत्र-७-८ ]
श्रीसिद्धहेमचन्द्रशब्दानुशासने तृतीयोऽध्यायः ।
[४३
कारस्यैव भेदौ तेनात्रापि भवति,-क्षेत्रे चिकित्स्यः पारदारिकः,-निग्राह्य इत्यर्थः, चिकित्स्यानि क्षेत्रे तृणानि विनाशयितव्यानि इत्यर्थः । संशयप्रतीकार इति किम् ? केतनम् , केतयति ।। ६॥
न्या० स०-कितः संशय:-अनवधारणात्मक: प्रत्ययः संशयः । प्रतीकारा दुःखहेतोनिराकरणम् । निग्रहविनाशाविति-अन्यनिग्रहविनाशयोरपि सन्नभिहित: तत्स्वमते कथमित्याशङ्का।
शान्-दान-मान-बधान्निशानाऽऽर्जव-विचार-वैरूप्ये दीर्घश्चेतः
शान-दान-मान-बध इत्येतेभ्यो यथासंख्यं निशाने, आर्जवे, विचारे, वैरूप्ये च वर्तमानेभ्यः स्वार्थे सन् प्रत्ययो भवति, दीर्घश्चैषां द्विर्वचने सति पूर्वस्येकारस्य । शीशांसते, शीशांसति, दीदांसति, दीदांसते, मीमांसते, बीभत्सते । अर्थनिर्देश: किम् ? अर्थान्तरे माभूतनिशानम् अवदानम् , अच् ,-अवमानयति, बाधयति ।। ७॥
न्या० स०-शानः-निन्दितरूपो विरूपः, तस्य भावो वैरूप्यम् । नन्वत्र इद्ग्रहणं किमर्थं, दीर्घ इति सामान्योक्तावपि सनि इत एव संभवः ? सत्य, अदिति ग्रहणाभावे सनि प्रथममेवाकारस्य दीर्घः स्यात् , शान्दानोः साहचर्यात् मानिर्वादिह्यते न तु चुरादिः ।
निश्यतीत्यचि निशानं, अवद्यतीत्यचि अवदानं, 'शोंच तक्षणे,' 'दोंच् छेदने' अनयोऽनडन्तयोरिदं रूपयमिति कश्चिदाशङ केत तद्व्युदासार्थमाह-अजिति ।
धातोः कण्ड्वादेर्यक् ।। ३. ४. ८ ॥
द्विविधाः कण्डवादयः धातवो नामानि च, कण्डवादिभ्यो धातुभ्यः स्वार्थे यकप्रत्ययो भवति । कण्डयति, कण्डूयते, महीयते, मन्तूयति । धातोरिति किम् ? कण्डः, कण्ड्वौ, कण्ड्वः । यकः कित्त्वाद्धातोरेवायं विधिः । धातुग्रहणम् उत्तरार्थमिह सुखार्थ च । कण्डूग , गकारः फलवति 'ईगित:' ( ३. ३. ६५ ) इत्यात्मनेपदार्थः। महीङ, हृणीङ्, वेङ्, 'लाङ् 'ङकार आत्मनेपदार्थः। मन्तु, वल्गु, असु, वेट , लाट । वेट्लाट । इत्यन्ये । लिट्, लोट् , उरस् , उषस् इरस् , तिरस्, इयस् , इमस् , अस् , पयस् , . संभूयस् , दुवस् , दुरज , भिषज् , भिष्णुक , रेखा, लेखा, एला, वेला, केला, खेला, खल इत्यन्ये । गोधा, मेधा, मगध, इरध इषुध, कुषुम्भ, सुख, दुःख, अगद, गद्गद, गद्गदङित्येके । तरण, वरण, उरण, तुरण, पुरण, भुरण, वुरण, भरण, तपुस, तम्पस, परर, सपर, समर इति कण्ड्वादिः ।। ८॥
न्या० स०-धातोः कण्ड्वा०-कण्ड्व इति यदा कण्डूमिच्छन्ति क्यनि क्विपि तल्लोपे जसि 'संयोगात्' २-१-५२ इत्युवादेशे कण्डुव इति भवति । यकः कित्त्वेति-कितः फलं 'नामिनो गुणः' ४-३-१ इत्येवमादीनि तानि च धातोरेव गौणमुख्ययोरिति न्यायात्