________________
४० ]
बृहवृत्ति-लघुन्याससंवलिते
[ पाद-३, सूत्र-१.८
प्राप्तमनेन निषिध्यते, तदा हि णिगवस्थायामनाप्यो घातुर्नाणिगवस्थायाम् पञ्चम्यामवस्थायामयं धातुनित्याकर्मकोऽतो नित्याकर्मकद्वारेण णिगन्तस्य धातोः षठ्यामवस्थायां 'वाकर्मणाम्' २-२-४ इत्यनेन हस्तिनः कर्मत्वं प्राप्तमणिक्कतत्यंशेन निषिध्यते ।
चल्याहारार्थेबुध-युध-पु-दु-मुनिश-जनः॥ ३. ३. १८८ ॥
चलिरर्थः कम्पनम् , तदर्थेभ्य माहारार्थेभ्य इडादिभ्यश्च णिगन्तेभ्यः कर्तरि परस्मैपदं भवति । चल्यर्थः-चलयति, कम्पयति चोपयति शाखाम् । आहारार्थ,-निगारयति, भोजयति, आशयति चैत्रमन्नम् । पय उपयोजयते चत्रेणेति युजेरनाहारार्थत्वात न भवति । इङ-सूत्रमध्यापयति शिष्यम् । बुध-बोधयतिपन रविः, बोषयति धर्म शिष्यम् । युधयोषयपति काष्ठानि । प्र-प्रावयति राज्यं प्रापयतीत्यर्थः । ब्रु-द्रावयत्ययः, विलाययतीत्यर्थः । त्र-स्त्रावयति लम् , स्पन्दयतीत्यर्थः । नश् नाशयति पापम् । जन-जनयति पुण्यम् । * प्रस्त्र द्रणामचलनार्थार्थ शेषाणां सकर्मकार्थमप्राणिकर्तृकार्थं च वचनम् ।। १०८ ।। इत्याचार्यश्रीहेमचन्द्रविरचितायां सिद्धहेमचन्द्राभिधानस्वोपज्ञशब्दानुशासनबृहवृत्तौ
तृतीयस्याध्यायस्य तृतीयः पादः समाप्तः।।। श्रीदुर्लभेशद्युमणेः पादास्तष्टुविरे न केः ।
लुलद्भिर्मेदिनी,-पाल लिखिल्यैरिवाग्रतः ।। न्या० स०-चल्याहार०-चलिरर्थ इति-चलिलक्षणोऽर्थः, कः कम्पनमनयापि युक्त्या यातीति षठ्यया न व्याख्येयम् ।
कम्पयतीति-कथं शिरः कम्पयते युवेत्यत्रात्मनेपदम् ? सत्यं, णिग्द्वयमत्र । कथं कम्पमानं शिर आत्मा प्रयुङ क्ते, तं युवा प्रयुङ क्ते ततो नात्र कम्पनं, कि तहि कम्पना चलिरर्थः कम्पनमिति चोक्तम् । ननु बुधिर्वादिषु द्विः पठ्यते एको गित् अपरश्च परस्मैपदी, द्वैवादिकोऽप्यात्मनेपदी तत् कस्य ग्रहणम् ? उच्यते, नात्र निरनुबन्धग्रहणपरिभाषोपतिष्ठतेऽनेन बुधेर्ण्यन्तस्य परस्मैपदविधानसामर्थ्यात् । यदि हि भौवादिकस्य बुधेः परस्मैपदिन एव निरनुबन्धत्वाद्ग्रहणं स्यान्नाऽन्यस्य ततश्च बोधयति, बोधयते इति नित्यमेव धातुभेदेन रूपद्वयमविचलं स्यात्तदनेन बुधग्रहणेन किं कृतं स्यात् ? अर्थस्वरूपयोरभेदात् इह बुधिग्रहणं बोधयत इति प्रयोगो माभूदेवमयं कृतं तस्माद्बुधग्रहणसामर्थ्यादविशेषेणेह बुध अवगमने 'बुधग् बोधने' 'बुधिंच ज्ञाने' इति बुधीनां ग्रहणं तेन बोधयतीति नित्यमेव भवति ।
प्रवन णामिति-प्राप्ति विलयादिभ्यो हि चलनस्यान्यत्वात् तथाहि चलनं कायव्यापारविशेषः, प्राप्तेः कारणं स्यन्दनविलयावपि प्राप्तिविशेषौ ।
इत्याचार्य
वालिरिव खिल्यन्ते 'शिक्यास्य' ३६४ ( उणादि ) इति निपात्यते । ईश्वरविवाहे होमादिक्रियां कुर्वतो ब्रह्मणः कक्षाबन्धाद्गौरीरूपदर्शनक्षुभितस्य वीर्यमपप्तत् तच्च वीडया तेनोत्पुसितुमारब्धं, तस्माच्चाऽमोघत्वेनाब्रह्मण्यममिति ब्रवाणा अष्टाशीतिसहस्रसंख्या ऋषय उदतिष्ठन् , ते च चतुर्मुखचरणाक्रान्तत्वेनाङ गुष्ठप्रमाणा अभवन्नित्यागमः ।