________________
पाद-३, सूत्र १०३-१०७ ] श्रीसिद्धहेमचन्द्रशब्दानुशासने तृतीयोऽध्यायः
[३९
वाच्यमस्यापि नियमार्थं कस्मान्न भवति, विधिनियमसंभवे विधेरेव ज्यायस्त्वम् ।
प्रादहः॥ ३. ३. १०३ ॥ प्रपूर्वाद्वहतेः कर्तरि परस्मैपदं भवति । प्रवहति ॥ १०३ ॥ परेमृषश्च ॥ ३.३.१०४॥
परिपूर्वान्मषेर्वहेश्च कर्तरि परस्मैपदं भवति । परिमष्यति, परिवहति । मैत्रं परिमृष्यते धनं परिवहते इत्यत्र न परिभृषिवहिभ्यां संबध्यते । वहेर्नेच्छन्त्यन्ये ॥ १०४ ॥
व्याङपरे रमः॥ ३.३.१०५ ॥
व्यापरिभ्यः पराद्रमेः कर्तरि परस्मैपदं भवति । विरमति, आरमति, परिरमति । इदित्त्वादात्मनेपदस्यापवादः ॥ १०५॥
वोपात् ॥ ३.३.१०६ ॥
उपपूर्वाद्रमेः कर्तरि परस्मैपदं भवति वा । भार्यामुपरमति उपरमते वा । उपसंप्राप्तिपूविकायां रतौ वर्तमानोऽन्तर्भूतणिगर्थो वा रमिः सकर्मकः । उपरमति उपरमते वा संताप । उपरमति उपरमते वावद्यात् । उपाद्रमेः सकर्मकात्परस्मैपदमेवे येके । आत्मनेपदमेवेत्यन्ये ।। १०६ ॥
- न्या० स०-वोपातः-उपरमते वा संताप इति-निवृत्त्यर्थः पुररुपपूर्वोऽप्यकर्मक इति दर्शयति । ... अणिगि प्राणिकर्तृ कानाप्याण्णिगः ॥ ३.३. १०७॥
___ अणिगवस्थायां यः प्राणिकर्तृ कोऽकर्मकश्च धातुस्तस्माण्णिगन्ताकर्तरि परस्मैपदं भवति । आस्ते चैत्र आसयति चैत्रम् , शेते मैत्रः शाययति मैत्रम् । अणिगीति किम् । स्वयमेवारोहयमाणं हस्तिनं प्रयुङ्क्ते आरोहयते । अरिणगिति गकारः किम् ? णिजवस्थायां प्राणिकर्तृ कानाप्यात णिगन्ताद्यथा स्यात् । चेतयमानं प्रयुङ्को चेतयतीति । प्राणिकर्तृ केति किम् ? शुष्यन्ति बोहयः, शोषयते वोहीनातपः। 'प्राण्यौषधिवृक्षेभ्यः (६-२-३१) इति पथग्निर्देशादिहलोके प्रतीता एव प्राणिनोगान्ते । अनाप्यादिति किम्? कटं कुर्वाणं प्रयुङक्ते कटं कारयते । णिरा इति किम् ? प्रास्ते, शेते । गकारः किम् ? अणिगवस्थायां प्राणिकर्तृकानाप्याणिजन्तान्माभूत । चेतयते, 'ईगितः' ( ३.३-६५) इत्यात्मनेपदस्यापवादोऽयम् ॥ १०७ ॥
___ न्या० स० प्रणिगि०:-आरोहयत इति-आरोहयते हस्तिना हस्तिपक इति सकलप्रयोगः । अत्र चावस्थापञ्चकं पूर्ववत् विधाय षष्ठ्यामवस्थायां स्वयमेवारोहयमाणं हस्तिनं प्रयुङ क्ते, इत्यस्यां परस्मैपदं प्राप्तं तदणिगीति व्यावृत्त्या निषिध्यते ।
ननु द्वितीयस्यामवस्थायामारुह्यते हाती स्वयमेवेत्यस्यामणिगन्तायं धातुः प्राणिकतूं कोऽनाप्यश्चास्ति तत्कथं न भवति परस्मैपदम् ? सत्यं, तदपेक्षया चतुर्थ्यामुत्पन्नमेवारोयन्ति हस्तिनं हस्तिपका इति. प्रस्तुते त्वारोहते हस्ती स्वयमेवेत्यस्याः पञ्चम्या अवस्थाया अनन्तरं स्वयमेवारोहयमाणं हस्तिनं प्रयुङ क्ते इत्यस्यां षठ्यामवस्थायां णिगि