________________
३८ ]
बृहद्वृत्ति-लघुन्याससंवलिते
[पाद-३, सूत्र-९८-१०२
समुदाङो यमेरग्रन्थे ॥ ३. ३. १८ ॥
समुदाझ्यः पराद् यमेरग्रन्थविषये प्रयोगे फलवति कर्तर्यात्मनेपदं भवति । संयच्छते व्रीहीन , उद्यच्छते भारम् , प्रायच्छते वस्त्रम् । समुदाङ इति किम् ? नियच्छति वाचम् । प्रग्रन्थ इति किम् ? वैद्यश्चिकित्सामुद्यच्छति, चिकित्साग्रन्थे उद्यमं करोतीत्यर्थः । फलवतीत्येव ? संयच्छति उद्यच्छति, आयच्छति परम्य वस्त्रम् । आइपूर्वादकर्मकात् स्वाङ्गकर्मकाच्च "प्राडो यम-हन:०" [ ३. ३.८६ ] इति सिद्धेऽन्यकर्मकार्थं वचनम् ।। ६८ ॥
न्या० स०-समुवाडो-चिकित्साग्रन्थ इति-चिकित्साहेतुत्वात् ग्रन्थोऽपि चिकित्सा चिकित्स्यतेऽस्या इति वा 'शसि प्रत्ययात्' ५-३-१०५ तदा बाहुलकात् स्त्रीत्वं सा चासो ग्रन्थश्च ।
पदान्तरगम्ये वा ॥ ३. ३.११ ॥
अनन्तरसूत्रपञ्चकेन यदात्मनेपदमुक्त तत् पदान्तराद् गम्ये फलवति कर्तरि वा भवति । स्वं शत्रु परिमोहयते परिमोहयति वा, स्वं यज्ञं यजते यजति वा, स्वं कटं कुरुते करोति वा, स्वमव गमयते गमयति वा, स्वं शिरः कण्डूयते कण्डूयति वा, स्वां गां जानीते जानाति वा, स्वं शत्रुमपववते अपवदति वा, स्वान् वोहीन संयच्छते संयच्छति वा ।। ६६
शेषात् परस्मै ।। ३. ३. १००॥
पूर्वप्रकरणेनात्मनेपदनियमः कृतः, परस्मैपदं तु अनियतमिति नियमार्थमिदम् , उपयुक्तादन्यः शेषः । येभ्यो धातुभ्यो येन विशेषणात्मनेपदमुक्त ततोऽन्यस्मादेव धातोः कर्तरि परस्मैपदं भवति । अनुबन्धोपसर्गार्थोपपदप्रत्ययभेदाच्चानेकधा शेषः । अनुबन्धशेषात-भवति, अत्ति, बोमवीति, दीव्यति, गोपायति, पणायति, पुत्रीयति, पुत्रकाम्यति, अश्वति, मन्तूयति । उपसर्गशेषात्-प्रविशति, अधितिष्ठति, आगच्छति विपश्यति । अर्थशेषात-करोति, नयति, वदति । उपपदशेषात्-गृहे संचरति, साधुभ्यः संप्रयच्छति, साधु पदं कारयति । प्रत्ययशेषात्-शत्स्यति, मुमूर्षति ॥ १० ॥
परानोः कृगः ॥ ३. ३. १०१॥
परानुभ्यां परात्करोतेः कर्तरि परस्मैपदं भवति । पराकरोति. अनुकरोति । गङ्गामनु कुरुत तप इति नात्र करोतिरनुना संबध्यते । गन्धनादावर्थे गित्त्वात्फलवति च प्राप्तस्यात्मनेपदस्यापवादोऽयम् ।। १०१॥
प्रत्यभ्यतेः क्षिपः॥ ३. ३. १०२॥
प्रत्यभ्यतिभ्यः परात क्षिपेः कर्तरि परस्मैपदं भवति । प्रतिक्षिपति, अभिक्षिपति, प्रतिक्षिपति वटुम् । प्रति क्षिपते भिक्षामिति नायं क्षिपिः प्रतिना संबध्यते । ईदित्त्वात्फलवतिप्राप्तस्यात्मनेपदस्यापवादोऽयम् , एवमुत्तरसूत्रद्वयमपि ।। १०२॥ .
न्या० स०-प्रत्यभ्यतेः-ईदित्त्वादिति-इह क्षिपिस्तौदादिक ईदित् ग्रह्यते न तु देवादिकः, परस्मैपदी तस्यानुबन्धशेषेण 'शेषात्' ३-३-१०० इत्यनेनैव सिद्धत्वात् । न च