________________
पाद-३, सूत्र-९६ ९७ ] श्रीसिद्धहेमचन्द्रशब्दानुशासने तृतीयोऽध्यायः
[ ३७
तच्चैतत् स्वार्थलक्षणं फलं सदसद् वा विवक्षानिबन्धनमेव ग्राह्य, तथैव लोके व्यवहारात् । तथाहि-क्वचिदसदपि सद्विवक्ष्यते, यथा-शोषयते व्रीहीनातपः, शब्दः प्राक स्वार्थमभिधत्ते ततो द्रव्यम् , परकर्मण्यपि प्रवृत्ताः केचिदाहुः-यजामहे, इमे पचामहे, यत्नादस्मदीयमेवैतदिति । क्वचित् सदप्यसद् विवक्ष्यते, यथा-इमे ब्रूमः, प्रवचनप्रतिषेधपरत्वेन प्रवृत्तेविवक्षितत्वात् , एवम्-अगमकत्वादिति ब्रू मो न ब्रू मोऽपशब्दः स्यादिति । तदाहुः
"क्रियाप्रवृत्तावाख्याता, कैश्चित् स्वार्थपरार्थता ।
असती वा सतो वापि विवक्षितनिबन्धना ॥” इति । केचित् तु रिणग्वजितादीगितो धातोणिगर्थे एव प्रेरणाध्येषणविशेष प्रतिविधाननाम्नि वर्तमानादात्मनेपदमिच्छन्ति-पचते, पाचयतीत्यर्थः; केशश्मश्रु वपते, वापयतीत्यर्थः, वेदो वैधर्म्य विधत्ते, विधायपतीत्यर्थः, इत्यादि यवाहुः
"कोणीष्व वपते धत्ते, मिनुते चिनुतेऽपि च ।।
आप्तप्रयोगा दृश्यन्ते, येषु ण्यर्थोऽभिधीयते ।।" इति । एतच्च श्रोत्रियमतमित्युपेक्ष्यते ।। ६५॥
न्या० स०-ईगितः-गमयत इति-गतिः पादविहरणं, चलनं तु स्थितस्यैव पदार्थस्येति 'चल्याहारार्थ' ३-३-१०८ इति न परस्मैपदमत्र । स्वार्थलक्षणमिति-अर्थ्यत इत्यर्थोऽर्थनीयः स्वस्यार्थः स्वर्गादिः स लक्षणं यस्य ।
शब्द प्राक् स्वार्थमिति-यथा गोशब्दः स्वार्थं सामान्यं गोत्वं प्राक् ततो गोलक्षणं द्रव्यम् । पूर्वाचार्यसंस्कृतेन द्रढयति यथात्र शब्दस्य फलवत्त्वमसदपि विवक्षितम् । अगमकत्वादिति-यथा ऋद्धस्य राज्ञः पुरुष इत्यत्र समासो न भवतीति अगमकत्वात् ब्रमः विवक्षितार्थप्रतिपादकत्वात् न ब मोऽपशब्दः स्यात् लक्षणादिदोषदुष्ट इति न ब्रूमः ।
स्वार्थपरार्थतेति-फलवत्ताफलवत्तेत्यर्थः, स्वस्मै इयं, परस्मै इयं क्रियाप्रवृत्तिः कर्मधारयात् स्वार्थपरार्थतो, भावे तल् । मतान्तरेण पुवद्भावः, स्वमते तु 'त्वते गुण:' ३-२-५९ इति गुणवचनस्य भवति । प्रतिविधाननाम्नीति-पूर्वेषां प्रयोजकव्यापारस्य प्रतिविधान इति संज्ञा, ततो विधानमर्थात्प्रयोज्यव्यापार प्रतिगतं प्रतिविधानं तन्नाम यस्य णिगर्थस्य तस्मिन् ।
ज्ञोऽनुपसगात् ॥ ३. ३.१६ ॥
अविद्यमानोपसर्गाज्जानातेः फलवति कर्तर्यात्मनेपदं भवति । गां जानीते, प्रश्वं जानीते। अनुपसर्गादिति किम् ? स्वर्ग प्रजानाति । फलवतीत्येव ? परस्य गां जानाति । अकर्मकात् पूर्वेण सिद्धे सकर्मकाथं वचनम् ॥ ९६ ॥
न्या० स०-ज्ञोऽनुप०-पूर्वेणेति-ज्ञ इत्यनेनेत्यर्थः । वदोऽपात् ॥ ३. ३.१७॥
अपपूर्वाद् वदतेः फलवति कर्तर्यात्मनेपदं भवति । एकान्तमपवदते । अपादिति किम् ? वदति । फलवतीत्येव ? अपवदति परं स्वभावत: ।। ६७॥