________________
३६ ]
बृहद्वृत्ति-लघुन्याससंवलिते
[ पाद-३, सूत्र-९४-९५
पदं मिथ्या कारयते इति-मिथ्येति पद-समानाधिकरणं विशेषणं मिथ्याभूतं पदं करोति, उच्चरति कश्चित्तमऽन्यः प्रयुङक्ते णिग् 'अव्यय०' ३-२-७ इत्यमो लुप् न भवति ।
केचिदिति-स्वमते तु द्विवचनं भवत्येव शब्दशक्तिस्वाभाव्यात , केवलेनात्मनेपदेनाभ्यासो वक्तु न शक्यते, यथा भोज भोजं व्रजतीत्यादावाभीक्ष्णये आगतोऽपि रूणं द्विवचनमाकाङक्षति इति, पदं मिथ्या कारयत इति प्रयोगो ज्ञेयः, वृत्तौ त्वेकदेशेनोदाहारि । केचिदिति-न्यासकारादयः, तदपरे न मृष्यन्ति, यत एवम भ्युपगम्यमानेऽभ्यासे द्योतकस्यात्मनेपदस्याभावे पदं साधु कारयतीत्यादिप्रत्युदाहरणेषु कस्मान्न भवति? न चाभ्यासो नास्तीति वाच्यं, ह्यङ्गवैकल्यप्रसङ्गात् तस्माद्यदेकदेशेनेत्याधुक्तं स एव पक्षो न्यायः । परिमुहा-ऽऽयमा-ऽऽयस-पा-ट्धे-वद-वस-दमा-ऽऽद-रुच-नृतः फलवति ।
॥३. ३.१४॥ फलवतीति भूम्न्यतिशायने वा मतुः, तेन यत् क्रियायाः प्रधानं फलमोदनादि यदर्थमियमारभ्यते तद्वति कर्तरि विवक्षिते, परिपूर्वान्मुहेरापूर्वाभ्यां यमियसिम्यां-पिबति-धबद वसति-दमा-ऽऽद-रुच-नतिम्यश्च णिगन्तेभ्यः कर्तर्यात्मनेपदं भवति परिमोहयते चैत्रम् , आयामयते सर्पम् , आयासयते मैत्रम् , पाययते बटुम् , धापयते शिशुम , वादयते शिशुम् , वासयते पान्थम् , दमयतेऽश्वम , आवयते चैत्रेण । अवेनच्छन्त्यन्ये-आदयति चैत्रेण, रोचयते मैत्रम् , नर्तयते नटम् । पिबत्यत्तिधेषातूनामाहारार्थत्वादोदासीन्यनिवृत्त्यर्थतायामकर्मकत्वाच्च नतेश्चलनार्थत्वाच्च शेषाणां स्वरूपतो विवक्षातो वाऽकर्मकत्वादुत्तराभ्यां परस्मैपदे प्राप्ते वचनम् । 'पा' इति 'धे' साहचर्याद पिबतेर्ग्रहणम् , न पातेः; वदसाहचर्याच्च 'वस' इति वसतेन वस्तरिति-पाति चैत्रो नोदास्ते, पालयति चैत्रम् ; बस्ते मैत्रो न नग्नः, वासयति मैत्रमित्येव भवति ॥१४॥
न्या० स०-परिमुहा०-मायामयते सर्पमिति-कश्चिद्यम: परिवेषण इति पठति, तन्मताभिप्रायेण न ह्रस्वः, स्वमते तु भवत्येव ।
उत्तराभ्यां परस्मैपदे इति-पिबति-अत्ति-ट्धे-धातूनामाहारार्थत्वान्नृतेश्चलनार्थत्वात् 'चल्याहारार्थ' ३-३-१०८ इत्यनेन नृतवजितानामऽमीषामकर्मकत्वे तु 'अणिगि प्राणि' ३-३-१०७ इत्यनेनेत्यर्थः , स्वरूपतो वसः अन्येषामविवक्षातश्चाकर्मकत्वे अनेनैव प्राप्ते ।
ईगितः ॥ ३. ३. १५ ॥
ईकारेतो गकारेतश्च धातोः फलवति कर्तर्यात्मनेपदं भवति । यजी-यजते, उपचीपचते, लक्षीण-लक्षयते; डुकृग-कुरुते, टुडुभृगक-बिभृते, कण्डूग-कण्डूयते, गिगन्तगमयते । ईगित इति किम् ? गच्छति, चोरयति । फलवतीत्येव ? यजन्ति याजकाः, पचन्ति पाचकाः, कुर्वन्ति कर्मकराः, गमयत्यश्वं दमकः, नात्र स्वगौवनादि प्रधानं फलं की संबध्यते, यच्च दक्षिणावेतनादि संबध्यते, न तत् क्रियायाः फलं प्रधानमिति ।