________________
चतुर्थः पादः
गुप-धूप- विच्छि-पणि-परायः ॥ ३. ४. १ ॥
गुपादिभ्यो धातुभ्यः पर आयप्रत्ययो भवति स चानिर्दिष्टार्थत्वात् स्वार्थे । गोपायति, धूपायति, विच्छायति पणायति व्यवहरति, स्तौति चेत्यर्थः । न चोपले मे वणिजां पणायाः, पनायति व्यवहारार्थात् पणेर्नेच्छन्त्यन्ते, शतस्य पणते । अनुबन्धस्याशवि आयप्रत्ययाभावपक्षे चरितार्थत्वादायप्रत्ययान्ताभ्यां पणिपनिभ्यामात्मनेपदं न भवति । पावरका गुपि गोपने इत्यस्य निवृत्यर्थः पङ्लु निवृत्त्यर्थश्च ॥ १ ॥
न्या० स०- - गुपौधूप० - आयस्यादन्तत्वे अजुगोपायादित्यादि सिद्धमन्यथाऽदन्तत्वाभावे ‘उपान्त्यस्य' ४-२ - ३५ इति ह्रस्वत्वे अजुगोपयदित्यनिष्टं स्यात् । विच्छायतीति ननु विच्छेस्तौदादिकत्वेन शविषयाभावाद् विकल्पः प्राप्नोति ? नैवं शवोपवादत्वात् शप्रत्ययस्यापि शव्शब्देनाभिधानाददोषः एवं चाशवीत्यनेनाशितीत्यर्थ सिद्धो भवति, अशितीत्येव वा पठनीयं धातुपारायणकृता तु मेने विच्छायति, विच्छतीति । शतरि 'अवर्णादश्न ० ' २-१-११५ इति वा अन्तादेशे विच्छती, विच्छन्ती स्त्री कुले वा । द्रमिलास्तु शे नित्यमायं तुदादिपाठबलाच्चायव्यवायेऽपि पक्षेऽन्ताभावमिच्छन्ति विच्छायन्ती, विच्छायती; यथा जुगुप्सते इति सना व्यवधानेऽपि आत्मनेपदम् ।
पर्नेच्छन्त्यन्ये इति- जयादित्यप्रभृतयः, पनि स्तुत्यर्थस्तत्साहचर्यात्पणेरपि स्तुत्यर्थादाय इति व्याख्यानयन्ति ।
गुपि गोपन इत्यस्य निवृत्त्यर्थ इति- 'गुपण् भासार्थ:', 'गुपच् व्याकुल्वे' इत्यनयोस्तु धूपसाहचर्यान्निरासः । ननु धूपश्चुरादिरप्यस्ति ? सत्यं, अणिजन्तविच्छसाहचर्यात् भौवादिकस्यैव धूपस्य ग्रहणम् । ननु विच्छिरपि भासार्थश्चुरादिस्तत्कथं तेन साहचर्यम् ? सत्यं, तस्याणिजन्ताभ्यां पणिपनिभ्यां साहचर्यान्निरासः ।
यङ्लुग्नवृत्त्यर्थश्चेति- ननु यप्रत्ययस्य प्राप्तिरेव नास्ति, आयप्रत्ययेऽनेकस्वरत्वात् तत्कथं यङ्लुप्त्निवृत्त्यर्थश्चेत्युक्तम् ? सत्यं, अशत्विषये विकल्पितस्यायस्य प्रथमं य प्रकृतिग्रहणेति न्यायात्प्राप्ति ।
कमेर्णिङ् ॥ ३. ४. २ ॥
कमेर्धातोः स्वार्थे णिङ् प्रत्ययो भवति । कामयते, कारो वृद्धद्यर्थः । ङकार आत्मनेपदार्थः ॥ २ ॥
न्या० स० - कमेणङ्० - णकारो वृद्धघर्थ इति यद्येवं 'अमोऽकम्यऽमिचमः ' ४-२-२६ इत्यत्र कमेः प्रतिषेधो व्यर्थस्तेन ह्यस्य ह्रस्वत्वं निषिध्यते, हस्वत्वस्य च णित्करणसाम