________________
४७६"]
स्वोपशोणादिगणसूत्रविवरणम्
[सूत्र-९८१-६८६
रिचपी विरेचने, इत्यस्माद् नस् प्रत्ययो भवति, अस्य च ककारोऽन्तादेशो भवति । रेक्ण:-पापं, धनं च ॥ ९८० ॥
री-वृभ्यां पस् ॥ १८१॥
अस्यां पस् प्रत्ययो भवति । रीश् गति-रेषणयोः, रेपः-पापम् । वृन्ट् वरणे, वर्पःरूपम् ।। ६८१॥
शीङः फस् च ॥ १८२॥
शीङ क् स्वप्ने, इत्यस्मात् फस् , चकारात् पस् प्रत्ययो भवति । शेफः, शेपश्च मेण्ढम् ॥ ६८२ ॥
पचि-वचिभ्यां सस् ॥१३॥
आभ्यां सस् प्रत्ययो भवति। डुपची पाके, पक्ष:-चक्रम् , इन्धनं च । वचंक् भाषणे, वक्षः-उरः, शरीरं च ।। ९८३ ।।
इणस्तशस् ॥ ६८४॥
इणंक गती, इत्यस्मात् तशस् प्रत्ययो भवति । एतशाः सोमः, अध्वर्यु:, वायुः, अग्निः , अर्कः इन्द्रश्च ।। ६८४ ॥
वष्टेः कनस् ॥ ६८५॥ • वशक् कान्ती, इत्यस्माद् किद् अनस् प्रत्ययो भवति । उशना:-शुक्रः ।। ९८५।।
चन्दो रमस् ॥ ६८६ ॥ चदु दीप्त्याह्लादयोः, इत्यस्माद् रमस् प्रत्ययो भवति । चन्द्रमाः शशी ।। ९८६॥ दमेरुनसूनसौ ॥ ६८७ ॥
दमूच् उपशमे, इत्यस्माद् उनस् ऊनस् इत्येतो प्रत्ययो भवतः । दमुना:-अग्निः । दमूनाः-सूर्यः, देवः, उपशान्तश्च ।। ९८७ ॥
इण आस् ॥ ६८८ ॥ इणंक गतो, इत्यस्माद् आस् प्रत्ययो भवति । अया:-कालः, आदित्यश्च ।।९८८।। रुच्यर्चि-शुचि-हु-सृ-पि-छादि-छुदिभ्य इस् ॥ ६८६ ॥
एभ्य इस् प्रत्ययो भवति । रुचि अभिप्रीत्यां च, रोचिः-किरणः । वसुपूर्वाद् वसुरोचि:-वासवः, किरणः, ऋतश्च । अर्च पूजायाम, अचिः-ज्वाला। शच शोके, शोचि:रश्मिः, शोकः, पिङ्गलभावः, विविक्तं च । हुंक दानादनयोः, हविः-पुरोडाशादि । सृप्ल गतो, सपि:-घृतम् । छदण् संवरणे, छादयतीति छदिः । 'छदेरिस् मन् बट् क्वौ' इति ह्रस्वः । बाहुलकाद्दीर्धत्वे छादिः-उभयं गृहच्छादनम् । ऊदपी दीप्ति-देवनयोः, छदिःवमनम् ।। ६८९॥