________________
सूत्र-९७२-९८० ]
स्वोपशोगादिगणसूत्रविवरणम्
[ ४७५
. विधेर्वा ॥ १७२॥
विधत् विधाने, इत्यस्माद् अस् प्रत्ययो भवति, स च किद्वा भवति । वेघाः-विद्वान्, सर्ववित् , प्रजापतिश्च । विधा:-स एव ।।.९७२ ।।
नुवो धयादिः॥ ६७३ ॥
णूत् स्तवने, इत्यस्माद् धकारादिस्थकारादिश्च किद् अस् प्रत्ययो भवति । नूधा नूथाश्च-सूतमागधौ । घादी गुणमिच्छन्त्येके । नोषाः-ऋषिः, ऋत्विक् ।। ६७३ ॥
वय:-पयः-पुरोरेतोभ्यो धागः॥ १७ ॥
एभ्यः पराद् डुधांग्क धारणे, इत्यस्मात् किद् अस् प्रत्ययो भवति । वयोधाः-युवा, चन्द्रः, प्राणी च । पयोधाः-पर्जन्यः । पुरोधाः-पुरोहितः, उपाध्यायश्च । रेतोधा:जनकः॥९७४ ।।
॥६७५ ॥ नत्र पूर्वाद् ईहि चेष्टायाम् , इत्यस्माद् अस् प्रत्ययो भवति, अस्य च एह, एध् इत्यादेशो भवतः । अनेहा:-कालः, इन्द्रः, चन्द्रश्च । अनेधा:-अग्निः, वायुश्च ।। ९७५ ॥
विहायस-सुमनस्-पुरुदंशस्-पुरूरवो-ऽङ्गिरसः ॥ ६७६ ॥
एतेऽस् प्रत्ययान्ता निपात्यन्ते । विपूर्वाज्जहातेजिहीतेर्वा योऽन्तश्च । विजहातीति विहाय-आकाशम् , विजिहीत इति विहायाः-पक्षी । सुपूर्वान्मानेह्रस्वश्च । सुष्ठु मानयन्ति मान्यन्ते वा, सुमनसः-पुष्पाणि । पुरुं दशतीति पुरुदंशाः-इन्द्रः । पुरुपूर्वाद्रौतेर्दीर्घश्च, पुरु रोति पुरूरवाः-राजा, यमुर्वशी चकमे । अङगेरिरोऽन्तश्च । अङ्गतीति-अङ्गिरा:ऋषिः ॥ ९७६ ॥
आतेजस्थसौ ॥ ७ ॥
पांक रक्षणे, इत्यस्माद् जस् थस् इत्येतो प्रत्ययो भवतः । पाजः-बलम् । पाथ:उदकम् अन्नं च ॥ ९७७ ॥
खरीभ्यां तस् ॥ ९७८॥
आभ्यां तस् प्रत्ययो भवति । स्रं गतो, स्रोतः-निझरणम् , सुष्ठु स्रवतीति सुस्रोताः । रीश् गतिरेषणयोः, रेतः-शुक्रम् ।। ९७८ ।।
अर्तीणभ्यां नस् ॥ ६७६ ॥
आभ्यां नस् प्रत्ययो भवति । ऋक् गती, अर्णः-जलम् । इणक् गतौ, एनः-पापम् , अपराधश्च ।। ९७९ ॥
रिचेः क च ॥ ६८०॥ . . . . . .