________________
४७४ ]
स्वोपज्ञोणादिगणसूत्रविवरणम्
-९६५-९७१
अब्ज इत्यादेशाश्चास्य भवन्ति । अपः-सत्कर्म, अप्तः तदेव, अप्सरसः-देवगणिकाः, अब्जःजलजम् , अजयं च रूपम् ॥ ६६४ ॥
उच्यञ्चेः क च ॥६६५॥
उचच समवाये, अञ्चू गतौ चेत्याभ्याम् अस् प्रत्ययो भवत्यनयोश्च कोऽन्तादेशो भवति । ओक:-आलयः, जलोकसश्च । अङ्कः-स्वाङ्गम् , रणश्च ।। ९६५ ।।
अज्यजि-युजि-भृजेर्ग च ।। ६६६ ॥
एभ्यः अस् प्रत्ययो भवति, गकारश्चान्तादेशो भवति । अञ्जोप व्यक्त्यादौ, अङ:-क्षत्रियनाम, गिरिपक्षी, व्यक्तिश्च । अज क्षेपणे च, अग:-क्षेमम् । युज पी-योगे, योगः-मनः-युगं च । भृजैङ् भर्जने, भर्गः-रुद्रः, हविः, तेजश्च ।। ९६६ ॥
अर्तेरुराशी च ।। ६६७ ॥
ऋक गतौ, इत्यस्माद् अस् प्रत्ययो भवत्यस्य च उरिति अर्श, इति च तालव्यशकारान्तः आदेशो भवति । उरः-वक्षः । अर्शासि-गुहादिकीलाः ।। ९६७ ॥
येन्धिभ्यां यादेधौ च ॥ ९६८॥
यांक प्रापणे, त्रिइन्धपि दीप्तो, इत्याभ्याम् अस् प्रत्ययो भवति, यथासख्यं च याद् एध इत्यादेशो भवतः । याद:-जलदुष्टसत्त्वम् । एषः-इन्धनम् ।। ६६८ ।।
चक्षः शिवा ॥ १६॥
चक्षिडक व्यक्तायां वाचि, इत्यस्माद् अस प्रत्ययो भवति, स च शिद्वा भवति । चक्षः, ख्याः, उभे अपि रक्षोनाम्नी। आचक्षा:-वाग्मी। आख्याः, प्रख्याश्च-बृहस्पतिः। संचक्षा:-ऋत्विक् । नृचक्षाः-राक्षसः ।। ६६६ ।।
वस्त्यगिभ्यां णित् ॥ ६७० ।।
वस्त्यगिभ्यां णिद् अस् प्रत्ययो भवति । वसिक् आच्छादने, वासः-वस्त्रम् । अग कुटिलायां गतो, आगः-अपराधः ।। ९७० ।।
मिथि-रज्युषि-तृ-पृ-श-भूवष्टिभ्यः कित् ॥ ६७१॥
एभ्यः किद् अस् प्रत्ययो भवति । मिथग मेघा हिंसयोः, मिथ:-परस्परम् , रहसि चेत्यर्थः । रञ्जी रागे, रजः-गुणः, अशुभम् , पांसुश्च । उष दाहे, उषा सन्ध्या, अरुणः, रात्रिश्च । तृ प्लवन-तरणयोः, तिरस्करोति-तिरः कृत्वा काण्डं गतः। तिर इति अन्तविनृजुत्वे च । पृश् पालन पूरणयोः, पुरः पुजायाम् । तथा च पठन्ति नमः पूजायां पुरश्चेति । शृश् हिंसायाम् , शृणाति-तद्वियुक्तमिति, शिरः-उत्तमाङ्गम् । भू सत्तायाम् , भुवः-लोकः, अन्तरिक्षम् , सूर्यश्च । वशक् कान्ती, उशा-रात्रिः ।। ९७१ ॥