________________
सूत्र--९५६-९६४ ]
स्वोपशोणादिगणसूत्रविवरणम्
[४७३
विश्वाद् विदि-मुजिभ्याम् ।। ६५६ ॥
विश्वपूर्वाभ्यामाभ्याम् अस् प्रत्ययो भवति । विदक् ज्ञाने, विश्ववेदाः-अग्निः । भुजंप पालनाभ्यवहारयोः, विश्वभोजाः, अग्निः, लोकपालश्च ।। ९५६ ॥...
चायेनों ह्रस्वश्च वा ॥ ६५७ ॥
चायग पूजा-निशामनयोः, इत्यस्माद् अस् प्रत्ययो भवति, नकारोऽन्तादेशो ह्रस्वश्चास्य वा भवति । चण:-चाणश्चान्नम् । बाहुलकाण्णत्वम् । णत्वं नेच्छन्त्येके ।। ९५७ ॥
अशेयश्चादिः ।। ६५८ ॥
अशश् भोजने, अशौटि व्याप्ती, इत्यस्माद् वा अस् प्रत्ययो भवति, यकारश्च धात्वादिर्भवति । यशः-माहात्म्यम, सत्त्वं, श्रीः ज्ञानं, प्रतापः, कीर्तिश्च । एवं शोभनम अश्नाति, अश्नुते वा इति सुयशाः । नागमेवाश्नाति नागयशाः । बृहदेनोऽश्नाति बृहद्यशाः । श्रुत एनोऽश्नाति श्रुतयशाः एवमन्येऽपि द्रष्टव्याः ॥ ९५८ ।।
उषेण च ।। ६५६ ॥
उषू दाहे, इत्यस्मादस् प्रत्ययो भवति, जकारश्चान्तादेशो भवति । ओजः-बलं, प्रभावः, दीप्तिः , शुक्र च ।। ६५९ ॥
स्कन्देधं च ।। ६६० ॥
स्कंद गति-शोषणयोः, इत्यस्माद् अस् प्रत्ययो भवति । धकारश्चान्तादेशो भवति । स्कन्धः-स्वाङ्गम् ।। ९६० ॥ .
अवेर्वा ॥ ६६१॥
अव रक्षणादी, इत्यस्माद् अस् प्रत्ययो भवति, धकारश्चान्तादेशो वा भवति । अधः-अवरम् , अव:-रक्षा ।। ६६१ ।।
अमेही चान्तौ ॥ ६६२ ॥
अम गतौ, इत्यस्माद् अस् प्रत्ययो भवति, भकार-हकारी चान्तौ भवतः । अभ्भ:पानीयम् । अंहः-पापम् , अपराधः, दिनश्च ।। ६६२ ॥
अदेरन्ध च वा ॥ ६६३॥
अदंक भक्षणे, इत्यस्मादस् प्रत्ययो भवति, अन्धादेशश्चास्य वा भवति । अद्यते तदिति अन्ध:-अन्नम् । अद्यते दृशा मनसा च तद् इति अदः, अनेन प्रत्यक्षविप्रकृष्टम् अप्रत्यक्षं च बुद्धिस्थमपदिश्यते ।। ९५३ ।।
आपोऽपाप्ताप्सराब्जाश्च ।। ६६४॥ आप्लट् व्याप्ती, इत्यस्माद् अस् प्रत्ययो भवति । अप् , अप्त् , अप्सर्,