SearchBrowseAboutContactDonate
Page Preview
Page 490
Loading...
Download File
Download File
Page Text
________________ ४७२ ] स्वोपज्ञोणादिगणसूत्रविवरणम् [ सूत्र-६५१-६५५ आभ्यां क्विप् प्रत्ययो भवति । विशंत् प्रवेशने, विशः-प्रजाः, विट्-वैश्यः, पुरीष अपत्यं च । पशण बन्धने, विपूर्वः, विपाशयति स्म वशिष्ठमिति विपाट-नदी ॥६५० ॥ सहेः षषु च ॥ ६५१॥ षहि मर्षणे, इत्यस्मात् क्विप् प्रत्ययो भवति, षष् चास्यादेशो भवति । षट्संख्या ।। ६५१॥ - अस् ॥ ६५२ ॥ सर्वधातुभ्यो बहूलम् अस् प्रत्ययो भवति । तपं संतापे, तपः-संतापः, माघमासः, निर्जराफलं च अनशनादि । सुष्ठु तपतीति, सुतपाः । एवं महातपाः । णमं प्रह्वत्वे, नमःपूजायाम् । तमूच् काङ क्षायाम् , तमः-अन्धकारः, तृतीयगुणः, अज्ञानं च । इणं गतो, अय:-काललोहम् । वींक प्रजनादौ, वयः पक्षी, प्राणिनां कालकृता शरीरावस्था च यौवनादिः । वचि दीप्तौ, वर्च:-लावण्यम् , अन्नमलं, तेजश्च । सुष्ठु वर्चत इति सुवर्चाः । रक्ष पालने, रक्ष:-निशाचरः। त्रिमिदाच स्नेहने, मेद:-चतुर्थों धातुः । रह त्यागे, रहः-प्रच्छन्नम् । षहि मर्षणे, सहा:-मार्गशीर्षमासः । णभच हिंसायाम् , नमःआकाशं श्रावणमासश्च । चितै संज्ञाने, चेतः-चित्तम् । प्रचेताः-वरुणः। मनिंच ज्ञाने, मन:-नोइन्द्रियम् । अंग्क व्यक्तायां वाचि, वचः-वचनम् । रुदृक् अश्रुविमोचने, रोदःनभः, रोदसी-द्यावापृथिव्यो । रुधृम्पी आवरणे, रोधः-तीरम् । अनक प्राणने, अन:शकटम् , अन्नं, भोजनं च । सृगतो, सर:- जलाशयविशेषः। तृ प्लवन-तरणयो, तरःवेगः, बलं च । रहु गतो, रहः-जवः । तिजि क्षमा-निशानयोः, तेजः-दीप्तिः । मयि दीप्तौ, मय:-सुखम् । मह पूजायाम् , महः-तेजः । अचिण् पूजायाम् , अर्चः-पूजा । षद्ल विशरणगत्यवसादनेषु, सदः-सभा, भवनं च । अजौप् व्यक्त्यादौ, अञ्जः-स्नेहः ॥ ६५२ ।। पा-हाभ्यां पय-ह्यौ च ॥ ६५३ ।। पां पाने, ओहांक त्यागे, इत्येताभ्याम् अस् प्रत्ययो भवति, यथासंख्यं च पय् ह्य इत्यादेशावनयोर्भवतः । पयः-क्षीरं, जलं च । ह्यः-अनन्तरातीते दिने ॥ ६६३ ।। छदि-बहिन्यां छन्दोधौ च ॥ ६५४ ॥ छदण संवरणे, वहीं प्रापणे, इत्येताभ्याम् अस् प्रत्ययो भवति, यथासंख्यं चानयोः छन्द् ऊध् इत्यादेशौ भवतः । छन्द:-वेदः, इच्छा, वाग्बन्धविशेषश्च । ऊध:-धेनोः क्षीराघारः।।६५४।। श्वेः शव च वा ॥ ६५५ ॥ ट्वोश्वि गति-वृद्ध्योः , इत्यस्माद् अस् प्रत्ययो भवति, अस्य च शब् इत्यादेशो वा भवति । शवः-रोगाभिधानं, मृतदेहश्च । शवसी, शवांसि । श्वयः-शोफः, बलं च । श्वयसी, श्वयांसि ॥९५५ ॥
SR No.034256
Book TitleSiddh Hemhandranushasanam Part 02
Original Sutra AuthorHemchandracharya
AuthorUdaysuri, Vajrasenvijay, Ratnasenvijay
PublisherBherulal Kanaiyalal Religious Trust
Publication Year1986
Total Pages520
LanguageSanskrit, Gujarati
ClassificationBook_Devnagari & Book_Gujarati
File Size20 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy