________________
सूत्र-६४१-९५० ]
स्वीपज्ञोणादिगणसूत्रविवरणम्
[ ४७१
ई-कमि-शमि-समिभ्यो डित ।। ६४१ ॥
एभ्यो डिद् ईम् प्रत्ययो भवति । ईङ च गतौ, ईम् । कमूङ कान्तो, कीम् । शमूच उपशमे, शीम् । षम वैक्लव्ये, सीम्-अभिनयव्याहरणान्येतानि । ईम् शीम्-अव्यक्ते । कोम्-संशयप्रश्नादिषु । सीम्-अमर्ष-पादपूरणयोः ॥ ९४१ ॥ .
क्रमि-गमि-क्षमेस्तुमाश्चातः ॥ ९४२ ।।
एभ्यः तुम् प्रत्ययो भवति, अकारस्य चाकारो भवति । क्रमू पादविक्षेपे, क्रान्तुंगमनम् । गम्लु गतौ, गान्तुम्-पान्थः । क्षमौषि सहने, क्षान्तुम्-भूमिः । तुमर्थश्च सर्वत्र ।। ९४२॥
गृ-प-दुर्वि-धुर्विभ्यः किम् ।। ६४३॥
एभ्यः क्विप् प्रत्ययो भवति । गश् शब्दे, गी:-वाक् । पृश् पालनपूरणयोः, पू:नगरी । दुवै धुर्वे हिंसायाम् , दूः-देहान्तरवयवः, धूः-शकटाङ्गम् , आदिश्च ।। ६४३ ।।
वाारौ। ६४४ ॥
एतौ क्विपप्रत्ययान्तो निपात्येते । वृणोते द्विश्च । वाः-पानीयम् । कर्मणि दश्च धात्वादिः । वृण्वन्ति तामिति द्वाः- द्वारम् । वरणे, इत्यस्य च णिगन्तस्य रूपम् ।।६४४।
प्रादतेरर् ॥ ६४५॥ प्रपूर्वाद् अत सातत्यगमने, इत्यस्माद् अर् प्रत्ययो भवति । प्रात:-प्रभातम् ।९४५। सोरतेलु क् च ।। ६४६ ॥
सुपूर्वात् ऋक् गती, इत्यस्माद् अर् प्रत्ययो भवति, पातोश्च लुग् भवति । स्व:स्वर्गः ॥ ९४६ ।।
पू-सन्यमिभ्यः पुनसनुतान्ताश्च ।। ६४७॥
पूग्श् पवने, षण् भक्ती, अम गती, इत्येतेभ्यः अर् प्रत्ययो भवति, यथासंख्यं च पुन्, सनुत् , अन्त् इत्यादेशा एषां भवन्ति । पुनः-भूयः । सनुतः-कालवाची । अन्तः-मध्ये ।९४७।
चतेरुर ॥१४ ॥
चतेग याचने, इत्यस्माद् उर् प्रत्ययो भवति । चत्वारः-संख्या । चत्वारि, चतस्रः ॥६४८॥
दिवेडिव ॥ १४ ॥
दिवूच क्रीडादौ, इत्यस्माद् डिद् इव् प्रत्ययो भवति । द्यौः-स्वर्गः, अन्तरिक्षं च । दिवौ, दिवः ॥ ९४६ ॥
विशि-विपाशिभ्यां किम् ॥ ९५० ॥