________________
४७० ]
स्वोपज्ञोणादिगणसूत्रविवरणम्
[सूत्र-९३१-६४०
आपः क्विप् ह्रस्वश्च ॥ ६३१॥
आप्लुट् व्याप्ती, इत्यस्मात् विवप् प्रत्ययो भवति, ह्रस्वश्चास्य भवति । आपःअम्भः । स्वभावाद् बहुत्वम् ॥ ६३१ ।।
ककुप्-त्रिष्टुबनुष्टुभः ॥ ६३२॥
एते क्विप् प्रत्ययान्ता निपात्यन्ते। कपूर्वात् स्कुभ्नातेः सलोपश्च-क-वायु, ब्रह्म च, स्कुभ्नन्तीति ककुभ:-दिशः । कुकुप्-उष्णिक्छन्दः। श्यनुपूर्वात् स्तुभ्नातेः सः षश्च, त्रिष्टुप् छन्दः, अनुष्टुप् छन्दः बहुवचनानिजि-विजि-विषां क्विप शित् , नेनिक्-प्रजापतिः । वेविक्-शुचिः । वेविट-चन्द्रमाः ॥ ६३२ ।।
अवेमः ॥ ६३३ ॥ अव रक्षणादौ, इत्यस्माद् मः इत्ययो भवति । अवतीति ओम्-ब्रह्म, प्रणवश्च । ६३३। सोरेतेग्म् ॥ ६३४॥ सुपूर्वाद् इणंक गती, इत्यस्माद् अम् प्रत्ययो भवति । स्वयम्-आत्मना ।। ९३४ ।। नशि-नूभ्यां नक्त-नूनौ च ।। ६३५॥
नशौच अदर्शने, एत् स्तवने, आम्याम् अम् प्रत्ययो भवति, नक्त नून इत्यादेशौ चाऽनयोर्भवतः। नक्तं-रात्रौ । नूनं-वितर्के ।। ९३५ ।।
स्यतेर्णित् ॥ ६३६ ॥ _षोंच अन्तकर्मणि, इत्यस्माद् णिद् अम् प्रत्ययो भवति । सायम्-दिवसावसानम् ॥ ९३६ ॥
गमि-जमि-क्षमि-कमि-शमि-समिभ्यो डित् ।। ६३७ ॥
एभ्यो डिद् अम् प्रत्ययो भवति । गम्लु गती, गम् । जमू अदने, जम् । क्षमौषि सहने, क्षम्-एतानि भार्यानामानि । कमूङ कान्तो, कम्-पानीयम् । शमूच उपशमे, शम्सुखम् । षम वैक्लव्ये, सम्-संभवति ।। ६३७ ॥
इणो दमक् ॥ ६३८॥ इणक् गतो, इत्यस्मात् कित् दम् प्रत्ययो भवति । इदम् प्रत्यक्षनिर्देशे ।। ६३८ ।। कोर्डिम् ॥ ६३६ ॥
कुंङ, शब्दे, इत्यस्माद् डिद् इम् प्रत्ययो भवति । किम्-अनेनाविज्ञातं वस्तु पर्यनुयुज्यते ॥ ६३९ ॥
तूपेरीम् णोऽन्तश्च ॥ ६४०॥
तूष तुष्टी, इत्यस्माद् ईम् प्रत्ययो भवति, णकारश्चास्यान्तो भवति । तूष्णीम्वाङ नियमे ।। ९४० ।।